________________
कफ has its
त्रिं
शि
का
३/२५
Jain Education International
निषिद्धं श्रूयते, 'अत्तट्ठा न वि दिक्खइ' (उपदेशमाला - ५१६) इति वचनात् । ज्ञानाद्यर्था अन्येषां भावचरेणपरिणामवत्पृष्ठभाविनामपुनर्बन्धकादीनां दीक्षा च ( = अन्यदीक्षा च) तदर्थं च तेषां स्वोपसम्पच्च नाऽहिता' = नाऽहितकारिणी, असद्ग्रहपरित्यागार्थमपुनर्बन्धकादीनामपि दीक्षणाऽधिकारात् । तदुक्तं 'सइअपुणबंधगाणं कुग्गहविरहं लहुं कुणइत्ति' (पञ्चाशक. २ / ४४) ।
तात्त्विकानां तु तात्त्विकैः सह योजनमप्यस्याचारः । तदुक्तं - 'देइ सुसाहूण बोहेउ' ( उपदेशमाला - ५१३) ति ।।२३।।
नावश्यकादिवैयर्थ्यं तेषां शक्यं प्रकुर्वताम् ।
अनुमत्यादिसाम्राज्याद् भावावेशाच्च चेतसः ।।२४।।
ने । आवश्यकादिवैयर्थ्यं च तेषां स्ववीर्यानुसारेण शक्यं स्वाचारं प्रकुर्वतां न भवति, तत्करण एवाचारप्रीत्येच्छायोगनिर्वाहात् । तथाऽनुमत्यादीनां = अनुमोदनादीनां साम्राज्यात् = सर्वथाऽभङ्गात् ( = अनुमत्यादिसाम्राज्यात्) । चेतसः = चित्तस्य भावावेशात् अर्थाद्युपयोगाच्च श्रद्धामेधाद्युपपत्तेः ||२४||
=
द्रव्यत्वेऽपि प्रधानत्वात्तथाकल्पात् तदक्षतम् ।
यतो मार्गप्रवेशाय मतं मिथ्यादृशामपि ।। २५ ।।
१. हस्तादर्शे 'निषिद्धं श्रूयते' इति नास्ति । २. मुद्रितप्रतौ 'चरप' इति त्रुटितः पाठः । ३. मुद्रितप्रतौ 'नाऽहिता' इति पाठो नास्ति ।
For Private & Personal Use Only
118811
www.jainelibrary.org