SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मा + has to र्ग द्वा त्रिं का ३/२३ Jain Education International सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनादिकाः ।। २२।। शुद्धेति । एतेषां = संविग्नपाक्षिकाणां शुद्धप्ररूपणा एव मूलं सर्वगुणानामाद्यमुत्पत्तिस्थानं, तदपेक्षयतनाया एव तेषां निर्जराहेतुत्वात् । तदुक्तं 'हीणस्स वि सुद्धपरूवगस्स संविग्गपक्खवाइस्स । जा जा हविज्ज जयणा सा सा से णिज्जरा होइ ।। (उपदेशमाला ५२६ ) इच्छायोगसम्भवाच्चात्र नेतराङ्गवैकल्येऽपि फलवैकल्यम् । सम्यग्दर्शनस्यैवात्र सहकारित्वात्, शास्त्रयोग एव सम्यग्दर्शन -चारित्रयोर्द्वयोस्तुल्यवदपेक्षणात् । तदिदमुक्तम्- 'दंसणपक्खो सावय चरित्तभट्ठे य मंदधम्मे य । दंसणचरित्तपक्खो समणे परलोकंखिंमि ।। ( आवश्यकनिर्युक्ति - ११६५) उत्तरसम्पदः = उत्कृष्टसम्पदश्च सुसाधूनां ग्लानेरपनायकं यद् भैषज्यं तत्प्रदानं चाभ्यर्चनं च तदादिकाः (= सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनादिकाः ) ||२२|| आत्मार्थं दीक्षणं तेषां निषिद्धं श्रूयते श्रुते । ज्ञानाद्यर्थाऽन्यदीक्षा च स्वोपसम्पच्च नाऽहिता ।। २३ ।। आत्मार्थमिति । आत्मार्थं = स्ववैयावृत्त्याद्यर्थं तेषां = संविग्नपाक्षिकाणां दीक्षणं श्रुते १. हीनस्यापि शुद्धप्रख्पकस्य संविग्नपक्षपातिनः । या या भवेद्यतना सा सा तस्य निर्जरा भवति । २. 'जो जो ' इत्यशुद्धः पाठो हस्तप्रतौ । ३. दर्शनपक्षः श्रावके चारित्रभ्रष्टे च मन्दधर्मे च । दर्शनचारित्रपक्षः श्रमणे परलोककाङ्क्षिणि । For Private & Personal Use Only ।।४३ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy