SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मा + has to र्ग द्वा त्रिं का ३/२३ Jain Education International सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनादिकाः ।। २२।। शुद्धेति । एतेषां = संविग्नपाक्षिकाणां शुद्धप्ररूपणा एव मूलं सर्वगुणानामाद्यमुत्पत्तिस्थानं, तदपेक्षयतनाया एव तेषां निर्जराहेतुत्वात् । तदुक्तं 'हीणस्स वि सुद्धपरूवगस्स संविग्गपक्खवाइस्स । जा जा हविज्ज जयणा सा सा से णिज्जरा होइ ।। (उपदेशमाला ५२६ ) इच्छायोगसम्भवाच्चात्र नेतराङ्गवैकल्येऽपि फलवैकल्यम् । सम्यग्दर्शनस्यैवात्र सहकारित्वात्, शास्त्रयोग एव सम्यग्दर्शन -चारित्रयोर्द्वयोस्तुल्यवदपेक्षणात् । तदिदमुक्तम्- 'दंसणपक्खो सावय चरित्तभट्ठे य मंदधम्मे य । दंसणचरित्तपक्खो समणे परलोकंखिंमि ।। ( आवश्यकनिर्युक्ति - ११६५) उत्तरसम्पदः = उत्कृष्टसम्पदश्च सुसाधूनां ग्लानेरपनायकं यद् भैषज्यं तत्प्रदानं चाभ्यर्चनं च तदादिकाः (= सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनादिकाः ) ||२२|| आत्मार्थं दीक्षणं तेषां निषिद्धं श्रूयते श्रुते । ज्ञानाद्यर्थाऽन्यदीक्षा च स्वोपसम्पच्च नाऽहिता ।। २३ ।। आत्मार्थमिति । आत्मार्थं = स्ववैयावृत्त्याद्यर्थं तेषां = संविग्नपाक्षिकाणां दीक्षणं श्रुते १. हीनस्यापि शुद्धप्रख्पकस्य संविग्नपक्षपातिनः । या या भवेद्यतना सा सा तस्य निर्जरा भवति । २. 'जो जो ' इत्यशुद्धः पाठो हस्तप्रतौ । ३. दर्शनपक्षः श्रावके चारित्रभ्रष्टे च मन्दधर्मे च । दर्शनचारित्रपक्षः श्रमणे परलोककाङ्क्षिणि । For Private & Personal Use Only ।।४३ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy