SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगमेऽप्युक्तं- "नममाणा वेगे जीविअं विपरिणामंति' (आचाराङ्ग ६।४।१९१) ) द्रव्यतो नमन्तोऽप्येके संयमजीवितं विपरिणामयन्ति = नाशयन्तीत्येतदर्थः इति ।।१९।। वदन्तः प्रत्युदासीनान् परुषं परुषाशयाः । विश्वासादाकृतेरेते महापापस्य भाजनम् ।।२०।। वदन्त इति । उदासीनान् = मध्यस्थान् शिक्षापरायणान् प्रति परुषं 'भवन्त एव सम्यक्क्रियां न कुर्वते कोऽयमस्मान् प्रत्युपदेशः' इत्यादिरूपं वचनं वदन्तः परुषोऽज्ञानावेशादाशयो येषां ते तथा (=परुषाशयाः), एते आकृतेः = आकारस्य विश्वासान्महापापस्य परप्रतारणलक्षणस्य भाजनं भवन्ति, पामराणां गुणाभासमात्रेणैव स्खलनसम्भवात् ।।२०।। ये तु स्वकर्मदोषेण प्रमाद्यन्तोऽपि धार्मिकाः । . संविग्नपाक्षिकास्तेऽपि मार्गान्वाचयशालिनः ॥२१॥ ये विति । ये तु स्वकर्मदोषेण = वीर्यान्तरायोदयलक्षणेन प्रमाद्यन्तोऽपि = क्रियास्ववसीदन्तोऽपि धार्मिकाः = धर्मनिरताः संविग्नपाक्षिकाः = संविग्नपक्ष कृतः तेऽपि मार्गस्यान्वाचयो भावसाध्वपेक्षया पृष्ठलग्नतालक्षणस्तेन शालन्त इत्येवंशीलाः (=मार्गान्वाचयशालिनः) । तदुक्तं- 'लब्भिहिसि तेण पहं ति' (उपदेशमाला.५२२) ।।२१।। शुद्धप्ररूपणैतेषां मूलमुत्तरसम्पदः । १. नमन्तो वैके जीवितं विपरिणामयन्ति । २. मुद्रितप्रतौ 'इति' नास्ति । ३. मुद्रितप्रतौ 'पक्षीकृतः' इति पाठः। ।।४२।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy