________________
।। शुद्धोञ्छादिकमप्यफलं विपरीतफलं वा स्यात्, वारिधाविव नौभंगः ।।१८।।
यदि 'नामैतेषां नास्ति ज्ञानं, कथं तर्हि मासक्षपणादिदुष्करतपोऽनुष्ठातृत्वमित्यत आह__ अभिन्नग्रन्थयः प्रायः कुर्वन्तोऽप्यतिदुष्करम् ।
बाह्या इवाव्रता मूढा ध्वांक्षज्ञातेन दर्शिताः।।१९।। अभिन्नेति । अभिन्नग्रन्थयः = अकृतग्रन्थिभेदाः प्रायः कुर्वन्तोऽप्यतिदुष्करं मासक्षपणादिकं बाह्या इवाऽव्रताः स्वाभाविकव्रतपरिणामरहिता मूढाः = अज्ञानाऽऽविष्टा ध्वांक्षज्ञातेन = वायसदृष्टान्तेन दर्शिताः। यथाहि केचन वायसा निर्मलसलिलपूर्णसरित्परिसरं परित्यज्य मरुमरीचिकासु जलत्वभ्रान्तिभाजस्ताः प्रति प्रस्थिताः, तेभ्यः केचनान्यैर्निषिद्धाः प्रत्यायाताः सुखिनो बभूवुः, ये च नाऽऽयातास्ते मध्याह्नार्कतापतरलिताः पिपासिता एव मृताः । •एवं समुदायादपि मनाग्दोषभीत्या ये स्वमत्या विजिहीर्षवो गीतार्थनिवारिताः प्रत्यावर्तन्ते, तेऽपि ज्ञानादिसम्पद्भाजनं भवन्ति', अपरे तु ज्ञानादिगुणेभ्योऽपि भ्रश्यन्तीति। तदिदमाह
'पायं अभिन्नगंठी तमाउ तह दुक्करं पि कुव्वंता । _ 'बज्झव्व ण ते साहू धंखाहरणेण विन्नेया ।। (पञ्चाशक-११/३८) १. मुद्रितप्रतौ 'विपरीतं फलं.....' इत्यशुद्धः पाठः । हस्तादर्श ‘विलं' इति त्रुटितः पाठः । २. हस्तादर्शेषु 'नामनै' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ३. हस्तादर्श ‘भवन्तु' इति अशुद्धः पाठः । ४. प्रायोऽभिन्नग्रन्थयस्तमसस्तथा दुष्करमपि कुर्वन्तः। बाह्या इव न ते साधवः ध्वांक्षोदाहरणेन विज्ञेयाः ।। ५. मुद्रितप्रतौ 'तवाइ' इत्यशुद्धः पाठः । ६. हस्तादर्श 'बझब्ब' नास्ति ।
३/१९
४१।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org