SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 'समुदाय इति । समुदाये मनाग्दोषेभ्यः = ईषत्कलहादिरूपेभ्यो भीतैः (=मनाग्दोषभीतैः) । स्वेच्छाविहारिभिः = स्वच्छन्दचारिभिः संविग्नैरपि = बाह्याचारप्रधानैरपि अगीताथैः परेभ्यः = असंविग्नेभ्यो नातिरिच्यते = नाधिकीभूयते ।।१५।। वदन्ति गृहिणां मध्ये पार्श्वस्थानामवन्द्यताम् । यथाच्छन्दतयात्मानमवन्धं जानते न तेरे ॥१६॥ वदन्तीति । परदोषं पश्यन्ति, स्वदोषं च न पश्यन्तीति महतीयं तेषां कदर्थनेति भावः ॥१६॥ गीतार्थपारतन्त्र्येण ज्ञानमज्ञानिनां मतम् । विना चक्षुष्मदाधारमन्धः पथि कथं व्रजेत् ।।१७।। गीतार्थेति । मुख्यं ज्ञानं गीतार्थानामेव, तत्पारतन्त्र्यलक्षणं गौणमेव तदगीतार्थानामिति भावः ।।१७।। तत्त्यागेनाऽफलं तेषां शुद्धोञ्छादिकमप्यहो । विपरीतफलं वा स्यान्नौभङ्ग इव वारिधौ ।।१८।। ||४०।। तदिति । अहो ! तत्त्यागेन = गीतार्थपारतन्त्र्यपरिहारेण तेषां = संविग्नाभासानां ३/१८ ।। १. हस्तादर्श 'समुदाय इति' इति नास्ति । २. हस्तादर्श न हि' इति पाठः सोऽपि शुद्धः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy