SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तेषां निन्दाऽल्पसाधूनां बह्वाचरणमानिनाम् । प्रवृत्ताङ्गीकृतात्यागे मिथ्यादृग्गुणदर्शिनी ।।१३।। । तेषामिति । तेषां = असंविग्नानां अल्पसाधूनां = विरलानां यतीनां, बह्वाचरित(रण)| मानिनां = 'बहुभिराचीर्णं खलु वयमाचरामः स्तोकाः पुनरेते संविग्नत्वाभिमानिनो दाम्भिका' इत्यभिमानवतां निन्दा, अङ्गीकृतस्य मिथ्याभूतस्यापि बह्वाचीर्णस्यात्यागे(अङ्गीकृताऽत्यागे) अभ्युपगम्यमाने मिथ्यादृशां गुणदर्शिनी (=मिथ्यादृग्गुणदर्शिनी) प्रवृत्ता, 'सम्यग्दृगपेक्षया मिथ्यादृशामेव बहुत्वात् । तदाह 'बहुजणपवित्तिमिच्छं(मेत्तं) इच्छंतेण(हिं) इह लोइओ चेव । धम्मो न उझियबो जेण तहिं बहुजणपवित्ति ।। (उपदेशपद ९०९) ।।१३।। इदं कलिरजःपर्वभस्म भस्मग्रहोदयः । खेलनं तदसंविग्नराजस्यैवा'धुनोचितम् ।।१४।। इदमिति । व्यक्तः ।।१४।। समुदाये मनाग्दोषभीतैः स्वेच्छाविहारिभिः । संविग्नैरप्यगीताथैः परेभ्यो नातिरिच्यते ।।१५।। १. प्राचीनमुद्रितप्रतौ 'सम्यगृग...' इत्यशुद्धः पाठः । २. बहुजनप्रवृत्तिमात्रमिच्छद्भिरिह लौकिकश्चैव । धर्मो || नोज्झितव्यो येन तत्र बहुजनप्रवृत्तिः । ३. हस्ताद” 'वादकृतो' इत्यशुद्धः पाठः । ||३९।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy