________________
町fa伢何可
मा
द्वा
शि
का
३/१२
Jain Education International
द्रव्यस्तवं यतीनामप्यनुपश्यद्भिरुत्तमम् ।
विवेकविकलं दानं स्थापयद्भिर्यथा तथा ।। १० । अपुष्टालम्बनोत्सिक्तैर्मुग्धमीनेषु मैनिकैः ।
इत्थं दोषादसंविग्नैर्हहा विश्वं विडम्बितम् ॥ ११ ॥ दर्शयद्भिरिति । आमुष्मिकं = प्रेत्यप्रत्यवायविपाकलक्षणम् ।। ९ ।। द्रव्यस्तवमिति । अपिना आगमे यतीनां तन्निषेधो द्योत्यते । अनुपश्यद्भिः = मन्य
मानैः ॥ १० ॥
अपुष्टेति । व्यक्तः ।। ११ ।।
अप्येष शिथिलोल्लापो न श्राव्यो गृहमेधिनाम् ।
सूक्ष्मोऽर्थ इत्यदोऽयुक्तं सूत्रे तद्गुणवर्णनात् ।।१२।।
अपीति । एषोऽपि (= शिथिलोल्लापो ) शिथिलानामुल्लापो यदुत 'न श्राव्यो गृहमेधिनां सूक्ष्मोऽर्थः' इत्यदः = वचनं अयुक्तं, सूत्रे = भगवत्यादौ तेषां = गृहमेधिनामपि केषाञ्चिद् गुणवर्णनात्, (= तद्गुणवर्णनात्) 'लखट्ठा 'गहिअट्ठा' (भ.सू.२/५/१०७ ) इत्यादिना साधूक्तसूक्ष्मार्थपरिणामशक्तिमत्त्वप्रतिपादनात् । सम्यक्त्वप्रकरणप्रसिद्धोऽयमर्थः ।। १२ ।। १. ... विपाकफलं इति पूर्वमुद्रितप्रतौ । २ हस्तादर्शे ... मषि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'अहि...' इत्यशुद्धः
पाठ: ।
For Private & Personal Use Only
113211
www.jainelibrary.org