________________
संविग्नेति । संविग्नानामाचरणं (=संविग्नाचरणं) सम्यक् = साधुनीत्या कल्पप्रावरणादिकम् । तदाह- 'अन्नह भणियं पि सुए किंचि कालाइकारणाविक्खं । आइन्नमन्नहच्चिय दीसइ संविग्गगीएहिं ।।
कप्पाणं पावरणं अग्गोअरच्चाओ झोलिआभिक्खा । उवग्गहियकडाहयतुंवयमुहदाणदोराई ।। (धर्मरत्नप्रकरण-८१/८२) इत्यादि । विपर्यस्तं = असंविग्नाचरणं पुनः श्राद्धममत्वप्रभृति स्मृतम् । तदाह"जह सड्ढेसु ममत्तं 'राढाइ असुद्धउवहिभत्ताई ।। णिट्ठि(णिद्देज्ज) वसहि-तूली-मसूरगाईण परिभोगोत्ति ।। (धर्मरत्नप्रकरण-८७) ।।७।।
आद्यं ज्ञानात्परं मोहाद्विशेषो विशदोऽनयोः ।
एकत्वं नानयोर्युक्तं काच-माणिक्ययोरिव ॥८॥ आद्यमिति । ज्ञानं = तत्त्वज्ञानं, मोहः = गारवमग्नता ।।८।।
दर्शयद्भिः कुलाचारलोपादामुष्मिकं भयम् ।
वारयद्भिः स्वगच्छीयगृहिणः साधुसङ्गतिम् ॥९॥ १. अन्यथा भणितमपि सूत्रे किंचित्कालादिकारणापेक्षम् । आचीर्णमन्यथैव दृश्यते संविग्नगीतैः ।। २. कल्पानां प्रावरणमग्रावतारत्यागो झोलिकाभिक्षा । औपग्नहिककटाहकतुंबकमुखदानदवरकादि ।। ३. मुद्रितप्रतौ 'दोरा' इति पाठः । ४. यथा श्राद्धेषु ममत्वं राढ्याऽशुद्धोपधिभक्तादीनि । प्रदत्तवसतितूलीमसूरकादीनां परिभोगः ।। ५. हस्तादर्श 'गाढाइ' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'भागे' इति पाठः ।
।।।।३७।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org