________________
निषेधः सर्वथा नास्ति विधिर्वा सर्वथाऽऽगमे । ___ आय व्ययं च तुलयेल्लाभाकाङ्क्षी वणिग्यथा ।।५।। निषेध इति । सूत्रे विधिनिषेधौ हि गौणमुख्यभावेन मिथः संवलितावेव प्रतिपाद्येते, अन्यथाऽनेकान्तमर्यादातिक्रमप्रसङ्गादिति भावः ।।५।।
प्रवाहधारापतितं निषिद्धं यन्न दश्यते ।
अत एव न तन्मत्या दूषयन्ति विपश्चितः ।।६।। प्रवाहेति' । शिष्टसम्मतत्वसन्देहेऽपि तद्दषणमन्याय्यं किं पुनस्तन्निश्चय इति भावः। तदिदमाह
जं च ण सुत्ते विहिअं ण य पडिसिद्धं जणंमि चिररूढं । समइविगप्पियदोसा तं पि ण दूसंति गीयत्था ।। (धर्मरत्नप्रकरण-९९) ।।६।। . संविग्नाचरणं सम्यक् कल्पप्रावरणादिकम् ।
विपर्यस्तं पुनः श्राद्धममत्वप्रभृति स्मृतम् ।।७।। १. हस्तादर्श 'कारणसे' इत्यशुद्धः पाठः । २. हस्ताद” 'प्रवादेति' इत्यशुद्धः पाठः । २. यच्च न सूत्रे विहितं न च प्रतिषिद्ध जने चिररूढम् । स्वमतिविकल्पितदोषास्तदपि न दूषयन्ति गीतार्थाः ।। ३. मुद्रितप्रतौ हस्तादर्श च 'विहिअं ण सुत्ते' इति पाठः । परं धर्मरत्नप्रकरणप्रतौ साम्प्रतं यः पाठो लभ्यते सोऽत्र गृहीतः।। ४. हस्तादर्श 'ममृत' इत्यशुद्धः पाठः ।
।।३६।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org