________________
11 = मार्गानुसारिणां पथि = महाजनानुयातमार्गे प्रवर्तमानानामन्धपरम्परा न 'शङ्ख्या =
न शङ्कनीया । इत्थं चात्रागमबोधितेष्टोपायताकत्वमेवानुमेयं, आगमग्रहणं चान्धपरम्पराशङ्काव्युदासाय, इति नागमकल्पनोत्तरं विध्यर्थबोधकल्पनाद्वारव्यवधानेन प्रवर्तकतायाः शब्दसाधारण्यक्षतिः, अप्रत्यक्षेणागमेन प्रकृतार्थस्य बोधयितुमशक्यत्वात्, व्यवस्थितस्य चानुपस्थितेः सामान्यत एव तदनुमानात्, तदिदमुक्तं 'आयरणा वि हु आणत्ति'(उ.प.८१२)। ____वस्तुत उपपत्तिकेन शिष्टाचारेणैव विध्यर्थसिद्धावागमानुमानं भगवद्बहुमानद्वारा समापत्तिसिद्धये इति द्रष्टव्यम् ।।३।।
सूत्रे सद्धेतुनोत्सृष्टमपि क्वचिदपोद्यते ।
हितदेऽप्यनिषिद्धेऽर्थे किं पुनर्नास्य मानता ।।४।। __सूत्र इति । सूत्रे = आगमे उत्सृष्टमपि = उत्सर्गविषयीकृतमपि सद्धेतुना = पुष्टेनालम्बनेन क्वचिदपोद्यते = अपवादविषयीक्रियते । हितदेऽपि = "इष्टसाधनेऽपि अनिषिद्धे = सूत्रावारिते अर्थे किं पुनरस्य = शिष्टाचारस्य न मानता = न प्रमाणता ? ।।४।। ___ उदासीनेऽर्थे भवत्वस्य मानता, 'वारितं तु कारणसहस्रेणापि परावर्तयितुमशक्यमित्यत
आह
।।३५।।
१. मुद्रितप्रतौ 'न शक्या' इति पाठो नास्ति । २. संवेगी, हस्तप्रती 'चात्र विधिबोधिते'त्यादिः पाठः ।
३. हस्तादर्श '...पायिताक..' इत्यशुद्धः पाठः । ४. हस्तादर्श 'सिद्धे' इत्यशुद्धः पाठः । ५. हस्तादर्श 'अपि | इष्ट' इति नास्ति । ६. प्राचीनमुद्रितप्रतौ ‘चारितं' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org