________________
= प्रमाणम्। स च भगवता = सर्वज्ञेन उदितो विधिरूपः शब्दः ।
संविग्नाः = संवेगवन्तोऽशठाः = अभ्रान्ता गीतार्थाः = 'स्वभ्यस्तसूत्रार्थास्तेषामाचरणं (=संविग्नाऽशठगीतार्थाचरणं) चेति द्विधा, विधेरिव शिष्टाचारस्यापि प्रवर्तकत्वात् ।
तदिदमाह धर्मरत्नप्रकरणकृत्- 'मग्गो आगमणीई अहवा संविग्गबहुजणाइण्णं त्ति (ध.र.प्र.गा.८०)।।१।।
द्वितीयानादरे हन्त प्रथमस्याप्यनादरः ।
जीतस्यापि प्रधानत्वं साम्प्रतं श्रूयते यतः ॥२॥ द्वितीयेति । (=द्वितीयानादरे) द्वितीयस्य = शिष्टाचरणस्य अनादरे = प्रवर्तकत्वेनानभ्युपगमे हन्त प्रथमस्यापि = भगवद्वचनस्यापि अनादर एव, “यतो जीतस्यापि साम्प्रतं प्रधानत्वं व्यवहारप्रतिपादकशास्त्रप्रसिद्धं श्रूयते । तथा च जीतप्राधान्यानादरे तत्प्रतिपादकशास्त्रानादराद व्यक्तमेव नास्तिकत्वमिति भावः ।।२।।
अनुमाय सतामुक्ताचारेणागममूलताम् ।
पथि प्रवर्तमानानां शक्या नान्धपरम्परा ।।३।। अनमायेति । उक्ताचारेण = संविग्नाशठगीतार्थाचारेण आगममूलतामनुमाय सतां १. हस्तादर्श 'स्वल्प...' इत्यशुद्धः पाठः । २. उभयाणुसारिणी जा सा मग्गणुसारिणी किरिया ।। इत्युत्तरार्द्धः ।।८०।। ३. 'इणं ति' इति पाठो मुद्रितप्रतौ । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शविशेषे नास्ति । ४. हस्तादर्श 'यते' इत्यशुद्ध पाठ । ५. हस्तादर्श 'शेषः' इति पाठः ।
।।३४।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org