________________
।। दूषयेदपि, यतो दुष्टांशस्य छेदतो (=दृष्टांशच्छेदतो) विषकण्टकोऽध्री न दूषयेद् । एवमिहापि
दुर्नयलवच्छेदे द्वावपि नयौ सुस्थिताववतिष्ठेते इति । ___न चैवमितरांशप्रतिक्षेपार्नयापत्तिः, तस्य प्रकृतनयदूषणातात्पर्येण नयान्तरप्राधान्यग्राहकत्वेन परेषां तर्कवदनुग्राहकत्वेन तत्र तत्र व्यवस्थितत्वात्। निर्णीतमेतद् नयरहस्ये (पृ.३६) ।।३०।।
जानाति दातुं गीतार्थो य एवं धर्मदेशनाम् । कलिकालेऽपि तस्यैव प्रभावाद्धर्म एधते ।।३१।। गीतार्थाय जगज्जन्तुपरमानन्ददायिने ।
मुनये भगवद्धर्मदेशकाय नमो नमः ॥३२।। जानातीति गीतार्थायेति व्यक्तौ ।।३१।।३२।।
।। इति देशनाद्वात्रिंशिका ।।२।।
॥ अथ मार्गद्वात्रिंशिका ।।३।। देशनया मार्गो व्यवस्थाप्य इति तत्स्वरूपमिहोच्यते___मार्गः प्रवर्तकं मानं शब्दो भगवतोदितः ।
।।३३।। संविग्नाऽशठगीतार्थाऽऽचरणं चेति स द्विधा ।।१।। मार्ग इति । मार्गः प्रवर्तकं = स्वजनकेच्छाजनकज्ञानजननद्वारा प्रवृत्तिजनकं मानं ॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org