SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ rrE 11 = अज्ञातनयान्तरं प्रदर्शयेत्, अप्राप्तप्रापणगरीयस्त्वान्महतामारम्भस्य ।।२८।। संविग्नभाविता ये स्युर्ये च पार्श्वस्थभाविताः । मुक्त्वा द्रव्यादिकं तेषां शुद्धोञ्छं तेन दर्शितम् ।।२९ ।। संविग्नेति । 'संविग्नभाविता बालाः पण्डिताश्च स्युः, पार्श्वस्थवासिता बालाः स्युः, तत्र पार्श्वस्थवासिता बालाः (=मुग्धाः) आभिनिवेशिकाश्च बोध्याः । ये संविग्नभाविता बालास्तेऽपरिणताः यथापरिणतिमजानाना द्रव्यादिकमविशेषतयैकान्तव्यवस्थानाः । तेन = हेतुना ये संविग्नभाविताः स्युः ये च पार्श्वस्थभावितास्तेषां द्रव्यादिकं मुक्त्वाऽऽदिना क्षेत्रादिग्रहः, शुद्धोञ्छं = शुद्धपिण्डविधानं दर्शितं, 'संविग्गभाविआणं लुद्धयदिट्ठन्तभाविआणं च । मुत्तूण खित्तकालं भावं च कहिंति सुद्धञ्छं ।। - (बृ.क.भा.१६०७ नि.भा.१६४९) इत्यादिना बृहत्कल्पादौ । __अत्र हि संविग्नभावितान् प्रति द्रव्यादिकारणेष्वशुद्धस्यापि व्युत्पादनं, पार्श्वस्थभावितान् प्रति च शुद्धोञ्छविधेरेव तत्सार्थकमिति लभ्यते, इतरत्तु पिष्टपेषणतुल्यमिति ।।२९।। दुर्नयाभिनिवेशे तु तं दृढं दूषयेदपि ।। दुष्टांशच्छेदतो नाझी दूषयेद्विषकण्टकः ।।३०।। दुर्नयेति । परस्य कुदेशनया दुर्नयाभिनिवेशे तु एकान्तग्रहरूपे ज्ञाते तं = दुर्नयं दृढं ....... चिह्नद्वयान्तर्गतः पाठः संवेगी हस्तादर्श नास्ति । १. संविग्नभावितानां लुब्धकदृष्टान्तभावितानां च । मुक्त्वा क्षेत्रकालं भावं च कथयन्ति शुद्धोञ्छम् ।। २/३० ॥३२॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy