________________
vक
1 = बालादिबुद्धेः परिकर्मणा = अर्थान्तरग्रहणसौकर्यरूपा' स्यात् ।
___इत्थं चात्रार्थान्तरप्रतिक्षेपाभावान्नयान्तरव्यवस्थापनपरिणामाच्च न दोषः, शिष्यमतिपरिकर्मणार्थमेकनयदेशनाया अपि सम्मत्यादौ व्युत्पादनात् ।।२६।।
प्रमाणदेशनैवेयं ततो योग्यतया मता।
द्रव्यतः सापि नो मानं वैपरीत्यं यया भवेत् ।।२७।। प्रमाणेति । 'तत इयं योग्यतया प्रमाणदेशनैव मता, व्युत्पादयिष्यमाणनयान्तरसमाहारेण तत्त्वोपपतेः, तद्भावेन तत्फलसम्भवाच्च ।
द्रव्यतः फलानुपयोगलक्षणात् सापि = प्रमाणदेशनापि नो मानं = न प्रमाणं यया वैपरीत्यं ध्यान्ध्यलक्षणं भवेत् ।।२७।।
आदौ यथारुचि श्राव्यं ततो वाच्यं नयान्तरम् ।
ज्ञाते त्वेकनयेऽन्यस्मात् परिशिष्टं प्रदर्शयेत् ॥२८॥ आदाविति । आदौ = प्रथमं यथारुचि = श्रोतृरुच्यनुसारिनयानुगुण्येन श्राव्यं जिनवचनम्। ततः स्वपारतन्त्र्यं "बुद्धिपरिकर्मणां च श्रोतुर्ज्ञात्वा नयान्तरं वाच्यम् ।
अन्यस्मात = स्वव्यतिरिक्तात तु (एकनये) एकस्मिन नये श्रोत्रा ज्ञाते सति परिशिष्टं १. हस्तादर्श '...कर्मख्या...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'प्रतिपक्षा' इत्यशुद्धः पाठः । ३. हस्तादर्श 'नात्र' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'मान्न' इति पाठान्तरम् । ४. हस्ताद” 'ना मानं' इति पाठः । ५. मुद्रितप्रतौ 'तदियं' इत्यशुद्धः पाठः । ६. 'नयागुण्येन' इत्यशुद्धः पाठो मुद्रितप्रतौ । ७. मुद्रितप्रतौ 'बुधिप' इत्यशुद्धः पाठः ।
२/२८
।।।३
।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org