SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ hr Foto ।। च बुधस्य विपश्चिता वाच्यं, वचनायत्तत्वात्सर्वानुष्ठानस्य ।।२४।। इत्थमाज्ञाऽऽदरद्वारा हृदयस्थे जिने सति'। भवेत्समरसापत्तिः फलं ध्यानस्य या परम् ।।२५।। ___ इत्थमिति । इत्थं = अनया रीत्या आज्ञाऽऽदरद्वारा = भगवद्वचनबहुमानद्वारेण हृदयस्थे = ध्यानसाक्षात्कृते जिने सति भवेत्समरसापत्तिः = समतापत्तिः या ध्यानस्य परं = प्रकृष्टं फलं, तदाह- 'सैवेह' योगिमातेति (षोडशक २/१५) । इत्थं च समापत्तिसंज्ञकाऽसङ्गानुष्ठानफलकस्य वचनानुष्ठानस्याज्ञाऽऽदरद्वारैवोपपत्तेरयमेव गरीयानिति फलितम् । क्रियान्तरे च नैतदुपपत्तिः, न च तदनन्तरं भगवदनुध्यानादुपपत्तिः, अनियमाद्, अनुषङ्गत एवासङ्गसम्भवाच्चेति ।।२५।। देशनैकनयाक्रान्ता कथं बालाद्यपेक्षया । २/२६ इति चेदित्थमेव स्यात्तबुद्धिपरिकर्मणा ॥२६॥ ___देशनेति । धर्मगुह्यानुक्तौ बालाद्यपेक्षया एकनयाक्रान्ता = व्यवहारादिमात्रप्रधाना देशना कथं युज्यते? 'एगंते होइ मिच्छत्तं' (महानिशीथ-अ.५-सावद्याचार्य) इति वचनाद् इति चेत् ? ___ इत्थमेव = बालाद्यपेक्षया व्यवहारादिमात्रप्राधान्येनैव (=तबुद्धिपरिकर्मणा) तबुद्धेः १. हस्तादर्श सेति' इत्यशुद्धः पाठः । २. हस्तादर्श 'रसापूर्ति' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'सैषेह' इति पाठः । |॥३०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy