SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ।। द्रव्याद्यभिग्रहाः, विकृतित्यागः, एकसिक्थादिपारणकं, अनियतविहारकल्पः, नित्यं कायोत्सर्गश्चे- 11 त्यादिकं ग्राह्यम् ।।२१।। मध्यमस्य पुनर्वाच्यं वृत्तं यत्साधुसङ्गतम् । सम्यगीर्यासमित्यादि त्रिकोटीशुद्धभोजनम् ।।२२।। मध्यमस्येति । आदिनाऽन्यप्रवचनमातृग्रहः । तिस्रः कोट्यो रागद्वेषमोहरूपाः कृतकारितानुमतिभेदेन हननपचनक्रयरूपा वा ।।२२।। वयःक्रमेणाध्ययनश्रवणध्यानसङ्गतिः । सदाशयेनानुगतं पारतन्त्र्यं गुरोरपि ।।२३।। वय इति । क्रमोऽत्र प्रथमे वयस्यध्ययनं द्वितीयेऽर्थश्रवणं तृतीये च ध्यानेन भावनमित्येवंरूपः। ॥ सदाशयः 'संसारक्षयहेतुर्गुरुरयमिति कुशलपरिणामः ।।२३।। २/२४ वचनाराधनाद्धर्मोऽधर्मस्तस्य च बाधनात् । ___धर्मगुह्यमिदं वाच्यं बुधस्य च विपश्चिता ।।२४।। वचनेति । वचनाराधनाद् = आगमाराधनयैव धर्मः, तस्य = वचनस्य च बाधनाद् एव अधर्मो, नान्यत्रैकान्त इत्येतदुपसर्जनीकृतसकलक्रियं प्रधानीकृतभगवद्वचनं धर्मगुह्यं (इदं) ।।२९। १. हस्ताद” 'सिक्ता' इत्यशुद्धः पाठः । २. हस्तादर्श 'नुमित' इति पाठः । ३. हस्तादर्श 'वचनाराधनाद्' इति नास्ति । ४. हस्तादर्श 'धर्माधर्म' इति पाठोऽशुद्धः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy