SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ to hd f दे श ना द्वा शि का २/२१ Jain Education International = अभिप्रायान्वितं (=साधुग्लानभावाभिसन्धिमत्) भवति । भावनान्वितश्च नैवं प्रतिजानीते । यतः परैरप्येवमिष्यते, यदाह तारावाप्तौ रामं प्रति सुग्रीवः- “अङ्गेष्वेव जरां यातु यत्त्वयोपकृतं मम । नरः प्रत्युपकाराय विपत्सु लभते फलम् ।। " ( अष्टक - २१ / ६ ) इति । एवं दानदीक्षादिकमपि भावनां विना स्थूलबुद्ध्या न श्रिये, किन्त्वनर्थकृदेव । यदुक्तम् एवं विरुद्धदानादौ हीनोत्तमगतेः सदा । प्रव्रज्यादिविधाने च शास्त्रोक्तन्यायबाधिते।। ← (अष्टक - २१ / ७ ) इति ।। १८ ।। इत्थं च भावनैव सर्वक्रियाजीवातुरिति निगमयति अष्टके तस्माद् भावनया भाव्यं शास्त्रतत्त्वं विनाऽपरम् । परलोकविधौ मानं बलवन्नात्र दृश्यते ।। १९ ।। तस्मादिति । परलोकविधौ = धर्मक्रियायां मानं प्रमाणं बलवद् = अन्यानुपजीवि । । १९ ।। बाह्यक्रियाप्रधानैव देया बालस्य देशना । सेवनीयस्तदाचारो यथाऽसौ स्वास्थ्यमश्नुते ।। २० । बाह्येति । स्पष्टः ।। २० ।। सम्यग्लोचो धरा शय्या तपश्चित्रं परीषहाः । अल्पोपधित्वमित्यादि बाह्यं बालस्य कथ्यते ।। २१ ।। सम्यगिति । आदिनाऽनुपानत्कत्वं रजन्यां प्रहरद्वयं स्वापः, महती पिण्डविशुद्धिः, For Private & Personal Use Only ।। २८ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy