SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ tv Ed अन्यथा हि यथाश्रुतार्थमात्रग्राह्येकभक्तापेक्षयोपवासादेरेव बलवत्त्वश्रवणात्पूर्वापरविरोधोद्भावनेनैव म्रियेतेति भावः । विस्तरस्तु उपदेशरहस्ये ।।१६।। विनैतन्नूनमज्ञेषु धर्मधीरपि न श्रिये । गृहीतग्लानभैषज्यप्रदानाभिग्रहेष्विव ।।१७।। विनेति । एतद् = भावनाज्ञानं• विना नूनं = निश्चितं धर्मधीरपि = धर्मबुद्धिरपि न श्रिये = चारित्रलक्ष्म्यै प्रभवति । गृहीतो ग्लानभैषज्यप्रदानस्याभिग्रहो 'ग्लानाय मया भैषज्यं दातव्यमि'त्येवंरूपो यैस्तेषु (=गृहीत-ग्लानभैषज्यप्रदानाभिग्रहेषु) इव अज्ञेषु = पूर्वापरानुसन्धानविकलेषु ।।१७।। तेषां तथाविधाऽप्राप्तौ स्वाधन्यत्वविभाविनाम् ।। चित्तं हि तत्त्वतः साधुग्लानभावाभिसन्धिमत् ॥१८॥ तेषामिति । तेषां = गृहीतोक्ताभिग्रहाणां तथाविधस्य = ग्लानस्याप्राप्तौ (=तथाविधा प्राप्तौ) स्वाधन्यत्वविभाविनां' 'अहोऽहमधन्यो न सिद्धं मे वाञ्छितमि' त्येवमालोचनपराणां 'चित्तं हि = यतः तत्त्वतो अभिग्रहविषयाप्राप्तौ शोकगमनलक्षणाद्भावात्साधूनां ग्लानभावेऽभिसन्धिमद् १. मुद्रितप्रती 'श्रयणा' इत्यशुद्धः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । २. मुद्रितप्रतौ 'नभषज्य...' इत्यशुद्धः पाठः । ३. हस्तादर्श ...भावनां' इत्यशुद्धः पाठः । ४. हस्तादर्श '...मधन' इत्यशुद्धः त्रुटितश्च पाठः । ५. हस्तादर्श 'चित्रि' इत्यशुद्धः पाठः । . ।।२७|| Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy