SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ brhas to r श ना द्वा शि का २/१६ Jain Education International सर्वत्रैव हिता वृत्तिः समापत्त्याऽनुरूपया । ज्ञाने सञ्जीविनीचारज्ञातेन चरमे स्मृता ।। १५ ।। सर्वत्रेति । सर्वत्रैव भव्यसमुदाये हिता = हितकारिणी वृत्तिः = प्रवृत्तिः समापत्त्या = सर्वानुग्रहपरिणत्या अनुरूपया = ' 'उचितया सञ्जीविनीचारज्ञातेन चरमे ज्ञाने भावनामये स्मृता । अत्रायं भावार्थो वृद्धैरुपदिश्यते यथा किल कयाचित् स्त्रिया 'कृत्रिमगवीकृतस्य स्वपत्युर्वटवृक्षाधःस्थितया विद्याधरीवचनेनोपलब्धस्वभावलाभोपायभावं सञ्जीविनीसद्भावं तत्र विशिष्याऽजानानया तत्प्रदेशवर्तिनी सर्वैव चारिस्तस्य चारिताऽनुषङ्गतः सञ्जीविन्युपभोगाच्च स पुरुषः संवृत्त इति । एवं सर्वत्रैव कृपापरं भावनाज्ञानं भवति, हितं तु योग्यतानियतसम्भव ।। १५ ।। एतस्यैव फलमभिष्टौति एतेनैवोपवासादेर्वैयावृत्त्यादिघातिनः । नित्यत्वमेकभक्तादेर्जानन्ति बलवत्तया ।। १६ । एतेनेति । एतेनैव = भावनाज्ञानेनैव उपवासादेः वैयावृत्त्यादिर्बलवद्गुणघातिनः (=वैयावृत्त्यादिघातिनः ) सकाशात् बलवत्तया नित्यत्वं = सार्वदिकत्वं 'अहो णिच्चं तवो कम्मं' ( दशवैकालिकसूत्र ६/२३) इत्याद्यागमप्रसिद्धं एकभक्तादेर्जानन्ति = निश्चिन्वन्ति उपदेशपदादिकर्त्तारः । १. हस्तादर्शे ‘उचिता योगात् कदापि तस्यादृश संजी...' इत्यधिकोऽनावश्यकश्च पाठः । २. हस्तादर्श 'कृम...' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्शे ' ....बलबद्' इत्यशुद्धः पाठः । For Private Personal Use Only ॥२६॥ www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy