________________
rivo
सर्वत्रेति । सर्वत्र = महावाक्यनिर्णीतेऽर्थे विपक्षशङ्कानिरासदाढाय आज्ञापुरस्कारि = भगवदाज्ञाप्राधान्यद्योतकं 'तात्पर्यवृत्तितो जायमानं ज्ञानं भावनामयं स्यात् । अशुद्धजात्यरत्नस्य = स्वभावत एवान्यजीवरत्नेभ्योऽधिकज्ञानदीप्तिस्वभावस्य भव्यरूपस्य आभासमं = कान्तितुल्यम (अशुद्धजात्यरत्नाभासमम्) ।।
एकस्य वाक्यस्य कथं श्रुतादयो व्यापाराः ? इति परप्रत्यवस्थाने तु यथेन्द्रियस्य तव सविकल्पके जननीये सन्निकर्षादय इत्युत्तरम् । अधिकमुपदेशरहस्ये विपञ्चितमस्माभिः ।।१३।।
आद्येऽविरुद्धार्थतया मनाक् स्यादर्शनग्रहः ।
द्वितीये बुद्धिमाध्यस्थ्यचिन्तायोगात्कदापि न ।।१४।। __ आद्य इति । आये = श्रुतमये ज्ञाने सति मनाक् = 'ईषद् अविरुद्धार्थतया स्वाभिमतस्य दर्शनग्रहो भवति ‘अस्मदीयं दर्शनं शोभनं नान्यद्' इत्येवंरूपः । द्वितीये = चिन्तामये ज्ञाने सति बुद्धेर्नयप्रमाणाधिगमरूपाया माध्यस्थ्येन = स्वपरतन्त्रोक्तस्य न्यायबलायातस्यार्थस्य समर्थनसामर्थ्याविशेषरूपेण चिन्तायोगात् (=बुद्धि-माध्यस्थ्यचिन्तायोगात्) कदापि न स्यादर्शनग्रहः । ____ अत एवान्यत्राप्यविसंवादिनोऽर्थस्य दृष्टिवादमूलकत्वात्तन्निराकरणे दृष्टिवादस्यैव तत्त्वतो निराकरणमिति व्यक्तमुपदेशपदे ।।१४।। १. हस्तादर्श 'तोत्प....' इत्यशुद्धः पाठः । २. हस्तादर्श 'आभोस....' इत्यशुद्धः पाठः । ३. हस्तादर्श 'आपद्' इत्यशुद्धः पाठः । ४. मुद्रितप्रतो 'माणधिग.....' इत्यशुद्धः पाठः । ५. हस्तादर्श 'प्यविसंवादि' इति पाठो नास्ति ।
२/१४
।॥२५॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org