________________
परस्परविभिन्नोक्तपदार्थविषयं तु न ॥११॥ उत्पन्नमिति । उत्पन्नं इत्यत्र प्राक्तनपञ्चम्यन्तस्यान्वयः, ज्ञानमिति व्यवहितोत्तरश्लोकस्थमत्रानुषज्यते । एवमग्रेऽपि । अविनष्टं च यथा कोष्ठगतं बीजं, परस्परविभिन्नोक्ता ये पदार्थास्तद्विषयं (=परस्परविभिन्नोक्तपदार्थविषयं) तु न, तस्य सन्देहरूपत्वात्।
यैस्तु वाच्यार्थमात्रविषयस्यात्र व्यवच्छेद उच्यते. तैर्विशकलितस्यैवायमेष्टव्यः, न त दीर्घकोपयोगानुस्यूतस्य पदवाक्यमहावाक्यैदम्पर्यार्थमूर्तिकस्य, तस्य उपदेशपदप्रसिद्धत्वादिति ध्येयम् । ___ यद्वा तत्र 'स्वतन्त्रसंज्ञाव्यवच्छेद एवेष्यते इति न दोषः ।।११।।
महावाक्यार्थजं सूक्ष्मयुक्त्या स्याद्वादसङ्गतम् ।
चिन्तामयं विसर्पि स्यात्तैलबिन्दुरिवाम्भसि ।।१२।। महेति । महावाक्यार्थेन = वस्त्वाकाङ्क्षारूपेण जनितं (=महावाक्यार्थज) सूक्ष्मया = सूक्ष्मबुद्धिगम्यया युक्त्या (सूक्ष्मयुक्त्या) स्याद्वादेन = सप्तभङ्ग्यात्मकेन सङ्गतं (=स्याद्वादसगतं) ज्ञानं अम्भसि तैलबिन्दुरिव विसर्पि = प्रवर्धमानं चिन्तामयं स्यात ।।१२।।
सर्वत्राज्ञापुरस्कारि ज्ञानं स्याद्भावनामयम् ।
अशुद्धजात्यरत्नाभासमं तात्पर्यवृत्तितः ।।१३।। ॥ १. मुद्रितप्रती 'स्वतन्त्र' पदं नास्ति । २. हस्तादर्श 'चिन्तामयं' पदं नास्ति ।
२/१३
||२४।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org