SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ tv ।। त्याज्यम्। यथा जाड्यत्यागाय = अङ्गशैत्यापनयनाय ज्वलति ज्वलने पतनम् ।।८।। || शास्त्रतत्त्वं बुधज्ञेयमुत्सर्गादिसमन्वितम् । तद् दृष्टेष्टाविरुद्धार्थमैदम्पर्यविशुद्धिमत् ॥९॥ शास्त्रेति । शास्त्रतत्त्वं बुधज्ञेयं = पण्डितैकगम्यम्, उत्सर्गादिसमन्वितं, आदिनाऽपवादनिश्चयव्यवहारादिग्रहः। तद् दृष्टेष्टाभ्यां = प्रत्यक्षादिनाऽऽगमान्तरेण चाऽविरुद्धार्थं (=दृष्टेष्टाविरुद्धार्थम्), तथा ऐदम्पर्यविशुद्धिमत् = तात्पर्यतः शुद्धम् ।।९।। श्रुतचिन्तोत्तरोत्पन्नभावनाभाव्यमस्त्यदः । ____श्रुतं सर्वानुगाद्वाक्यात्प्रमाणनयवर्जितात् ॥१०॥ __ श्रुतेति । श्रुतचिन्ताभ्यामुत्तरोत्पन्ना या भावना तया भाव्यं = सुग्रहतात्पर्य I(श्रुतचिन्तोत्तरोत्पन्नभावनाभाव्यं) अदः = शास्त्रतत्त्वं अस्ति । ___तत्र श्रुतं सर्वानुगात् = सर्वशास्त्राविरोधिनिर्णीतार्थात् वाक्यात् प्रमाणनयवर्जितात् = प्रमाणनयाधिगमरहितात्, पदार्थमात्रावग्रहोत्तरस्य वाक्यार्थस्य कथम्भावाकाङ्क्षागर्भत्वेनेहारूपत्वात्, "प्रमाणनयाधिगमयोश्च कृत्स्नैकदेशापायरूपत्वात् ।।१०।। उत्पन्नमविनष्टं च बीजं कोष्ठगतं यथा । ।।२३।। ४, हस्तादर्श 'समन्विते' इति अशुद्धः पाठः । २. मुद्रितप्रतौ ...तात्' इति त्रुटितः पाठः । ३. हस्तादर्श '.वर्जित् प्र...' इति त्रुटितः पाठः । ४. हस्ताद” 'प्रमाणनयवर्जिता...' इत्यशुद्धः पाठः । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy