________________
क
+ horo
स्वामिनः श्रीवर्धमानस्य अभिग्रहः = प्रतिज्ञाविशेषः → 'जीवतो गृहवासेऽस्मिन् यावन्मे पितराविमौ । तावदेवाधिवत्स्यामि' गृहानहमपीष्टतः।। - (अष्टक २५/४) इत्येवमुक्तस्वरूपो न्याय्यः = न्यायादनपेतः श्रूयते ।।१७।।
न्याय्यता चेष्टसंसिद्धेः पित्रुद्वेगनिरासतः ।
प्रारम्भमङ्गलं ह्येतद् गुरुशुश्रूषणं हि तत् ॥१८॥ 'न्याय्यतेति । न्याय्यता चोक्ताऽभिग्रहस्य पित्रोर्दुःप्रतिकारयोरुद्वेगस्य वियोगनिमित्तकशोकरूपस्य निरासतः (= पित्रुद्वेगनिरासतः) अन्येषामप्येवम्विधस्थितिप्रदर्शनात् इष्टस्य = मोक्षस्य संसिद्धेः (= इष्टसंसिद्धेः) उचितप्रवृत्तिर्हि तदुपायोऽनुचितप्रवृत्तिश्च तद्विघ्न इति । ___ तदिदमुक्तम् – 'पित्रुद्वेगनिरासाय महतां स्थितिसिद्धये ।
इष्टकार्यसमृद्ध्यर्थमेवम्भूतो जिनागमे ।।' (अष्टक-२५/३) ननु भगवतो नियतकालीनचारित्रमोहनीयकर्मविपाकोदयेनैव गृहाऽवस्थानमिति नाऽभिग्रहन्याय्यतेति चेत् ? न, सोपक्रमस्य तस्य पित्रुद्वेगनिरासाद्यवलम्बनकाऽभिग्रहग्रहणमन्तरा विरतिपरिणामविनाश्यत्वात् । ____तथापि प्रव्रज्याविरोधिगृहाऽवस्थानकारिणोऽस्य कथं न्याय्यत्वमिति चेत् ? न, आनुपूर्पण न्याय्यप्रव्रज्यासम्पादकत्वेनैव तस्य न्याय्यत्वात, कालान्तरे बहुफलस्य कार्यस्य क्वचित्काले
का
४/१८
।।६२।।
१. मुद्रितप्रतौ 'न्याय्ये 'ति पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org