________________
कम । Fhoto
// निषेधेऽपि' न्याय्यत्वव्यवहारस्य सार्वजनीनत्वात् । तदिदमुक्तं| 'इमौ शुश्रूषमाणस्य गृहानाऽऽवसतो गुरू। प्रव्रज्याप्यानुपूर्येण न्याय्याऽन्ते मे भविष्यति ।। सर्वपापनिवृत्तिर्यत् सर्वथैषा सतां मता । गुरूद्वेगकृतोऽत्यन्तं नेयं न्याय्योपपद्यते ।।'
(अष्टक२५/५-६) इति । तथा यद् गुर्वोः = मातापित्रोः शुश्रूषणं = परिचरणं (=गुरुशुश्रूषणं), (ए)तद्धि प्रारम्भमङ्गलम् = आदिमङ्गलं प्रव्रज्यालक्षणशुभकार्यस्येति नैतद्विना प्रव्रज्यासिद्धिः, इत्यस्मादेव तस्या न्याय्यत्वम्। तदिदमाह___प्रारम्भमङ्गलं ह्यस्या गुरुशुश्रूषणं परम् । एतौ धर्मप्रवृत्तानां नृणां पूजाऽऽस्पदं महत् ।।' (अष्टक २५/७) इति ।।४/१८ ।। ननु पित्रुद्वेगे परिणामस्तावन्नास्त्येव मुमुक्षोरनिष्टनिमित्ततापरिहारस्तु सर्वत्र दुःशक इत्यत आह
तखेदरक्षणोपायाऽप्रवृत्तौ न कृतज्ञता ।
त्यागोऽप्यबोधे न त्यागो यथा ग्लानौषधाऽर्थिनः ।।१९।। तदिति । तयोः = पित्रोः खेदस्य यद्रक्षणं तदुपायेऽप्रवृत्तौ (= तत्खेदरक्षणोपायाऽप्रवृत्तौ) ॥ न कृतज्ञता । सा हि तत्प्रतिपत्तिसाध्यैव। यदाह - ___ ‘स कृतज्ञः पुमाँल्लोके स धर्मगुरुपूजकः । स शुद्धधर्मभाक् चैव य एतौ प्रतिपद्यते।।' ।।३।। (अष्टक २५/८) इति । तथा च सर्वश्रेयोमूलभूतस्य स्वेष्टस्य कृतज्ञतागुणस्य प्रतिपक्षः १. हस्तादर्श 'निषेधेऽपि' पदं नास्ति । २. हस्तादर्श 'बोधन' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org