________________
Fhoto
।। पितृखेदः सर्वथैव वर्जनीय इति भावः। यदाह
“अप्पडिवुज्झमाणे कहिंचि पडिबोहिज्जा अम्मापियरो” (पञ्चसूत्र-३) प्रव्रज्याभिमुखीकुर्वीतेत्यर्थः । “२अप्पडिबुज्झमाणेसु य कम्मपरिणइए विहेज्जा जहासत्ति तदुवगरणं तओ अणुण्णाए पडिवज्जेज्जा' धम्म” (पञ्चसूत्र-३) । ___ अथ नाऽनुजानीतस्तदा "अणुवहे चेव उवहिजुत्ते सिया' (पञ्चसूत्र-३) 'अल्पायुरहमि'त्यादिकां मायां कुर्यादित्यर्थः । ___ एवमुपायप्रवृत्तावपि तयोः अबोधे त्यागोऽपि मुमुक्षोस्तत्त्वतो न त्यागः, यथा ग्लानयोः = अध्वनि ग्लानीभूतयोः पित्रोरोषधार्थिनः (= ग्लानौषधार्थिनः) तदुपकारकौषधाऽऽनयनार्थं कथञ्चित्तौ विमुच्याऽपि गच्छतः पुत्रस्य, प्रव्रज्यायास्तयोः स्वस्याऽन्येषां चोपकारहेतुत्वात् । तदिदमाह- "सव्वहा अपडिवुज्झमाणे चएज्जा अद्धाणगिलाणओसहत्थचागणाएणं' (पञ्चसूत्र-३) ।।१९।।
अपरस्त्वाह राज्यादि महाऽधिकरणं ददत् ।
शिल्पादि दर्शयंश्चाहन्महत्त्वं कथमृच्छति ।।२०।। अपरस्त्विति । अपरस्तु वादी आह- 'राज्यादि महाधिकरणं = महापापकारणं १. अप्रतिबुध्यमाने कथञ्चित्प्रतिबोधयेन्मातापितरौ । २. अप्रतिबुध्यमानयोश्च कर्मपरिणत्या विदध्याद्यथासक्ति तदुपकरणं, ततोऽनुज्ञाते प्रतिपद्येत धर्मम् । ३. हस्तादर्श 'वज्जेज्ज' इति पाठः । ४. अनुपधश्चैव उपधियुक्तः स्यात् । ५. सर्वथाऽप्रतिबुध्यमाने त्यजेदध्वग्लानौषधार्थत्यागज्ञातेन ।
11६४
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org