________________
Fhee
।। ददत् स्वपुत्रादिभ्यः, शिल्पादि दर्शयंश्च लोकानां अर्हन् कथं महत्त्वमृच्छति ।।२०।। ।
तन्नेत्थमेव प्रकृताधिकदोषनिवारणात् ।
शक्तौ सत्यामुपेक्षाया अयुक्तत्वान्महात्मनाम् ।।२१।। तदिति । यदक्तमपरेण वादिना तन्न. इत्थमेव = राज्यप्रदानादिप्रकारेणैव प्रकतात = राज्य-प्रदानादिदोषादधिको राज्याऽप्रदानादिकृतमिथःकलहाऽतिरेकप्रसङ्गादिरूपो यो दोषस्तस्य निवारणात् (=प्रकृताधिकदोषनिवारणात्), शक्तौ परेषामधिकदोषनिवारणविषयायां सत्यामुपेक्षाया = माध्यस्थ्य-रूपाया अयुक्तत्वात् महात्मनां = परार्थमात्रप्रवृत्तशुद्धाऽऽशयानाम्। तदिदमाहअप्रदाने हि राज्यस्य नायकाऽभावतो जनाः' । मिथो वै कालदोषेण मर्यादाभेदकारिणः ।। विनश्यन्त्यधिकं यस्मादिह लोके परत्र च । शक्तौ सत्यामुपेक्षा च युज्यते न महात्मनः।। तस्मात्तदुपकाराय तत्पदानं गुणाऽऽवहम्। परार्थदीक्षितस्याऽस्य विशेषेण जगद्गुरोः ।। एवं विवाहधर्मादौ तथा शिल्पनिरूपणे । न दोषो ह्युत्तमं पुण्यमित्यमेव विपच्यते ।।
किं चेहाऽधिकदोषेभ्यः सत्त्वानां रक्षणं तु यत् । उपकारस्तदेवैषां प्रवृत्त्यङ्गं तथाऽस्य च।। ४/२१
(अष्टक २८/२-६) ।।२१।।। नागादे रक्षणायेव गर्ताद्याकर्षणेऽत्र न । १. हस्तादर्श 'जिना' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'विनश्यतीति अशुद्धः पाठः । ३. मुद्रितप्रतौ 'तदेवां' इत्यशुद्धः पाठः ।
।।६५।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org