SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ क + Phop दोषोऽन्यथोपदेशेऽपि स स्यात्परनयोद्भवात् ।।२२।। नागादेरिति । नागादेः सकाशाद् रक्षणाय = रक्षणार्थं जनन्याः स्वपुत्रस्य गर्तादेराकर्षणे (गर्ताद्याकर्षणे) हनु-जानुप्रभृत्यङ्गघर्षणकारिकर्मणि इव अत्र = भगवतो राज्यप्रदानादौ न दोषः, अन्यथा = असम्भविवारणदोषनिमित्तकस्यापि बहुगुणकर्मणो दुष्टत्वे उपदेशेऽपि = भगवतो धर्मव्याख्यानेऽपि स दोषः स्यात्, परेषां = बौद्धादीनां नयानां मिथ्यात्वमूलभूतानां दर्शनानामुद्भवात् (= परनयोद्भवात्) तत एवोपपत्तेः, 'जावइया णयवाया तावइया चेव परसमया' (सम्मतितर्क-३/४७) इति वचनात्। तदिदमाह - ___ नागादे रक्षणं यद्वद्गर्ताद्याकर्षणेन तु । कुर्वन्नदोषवांस्तद्वदन्यथासम्भवादयम् ।। इत्थं चैतदिहैष्टव्यमन्यथा देशनाप्यलम् । कुधर्मादिनिमित्तत्वाद्दोषायैव प्रसज्यते ।। (अष्टक २८/७-८) ॥२२॥ कश्चित्तु कुशलं चित्तं मुख्यं नास्येति नो महान् । तदयुक्तं यतो मुख्यं नेदं 'सामायिकादपि ॥२३॥ __ कश्चित्त्विति । कश्चित्तु मायापुत्रीयो मुख्यं = सर्वोत्तमं कुशलं चित्तं नाऽस्य = भवदभिमतस्य भगवतः, इति नो महान् अयमित्याह- तदयुक्तं, यतो नेदं = परपरिकल्पितं कुशलं चित्तं समतृणमणिलेष्टुकाञ्चनानां सर्वसावद्ययोगनिवृत्तिलक्षणात् सामायिकादपि मुख्यम्, १. मुद्रितप्रतौ 'समा...' इति पाठः । २. मुद्रितप्रतौ 'सवसा...' इत्यशुद्धः पाठः । ४/२३ ॥६६। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy