________________
he
असद्भूताऽर्थविषयत्वात् ।।२३।। तथाहि
स्वधर्मादन्यमुक्त्याशा तदधर्मसहिष्णुता ।
यद्वयं कुशले चित्ते तदसम्भवि तत्त्वतः ।।२४।। स्वधर्मादिति । स्वधर्माद अन्येषां जगत्प्राणिनां मक्त्याशा = मक्तिवाञ्छा (= अन्य मुक्त्याशा) तेषां = अन्येषां येऽधर्मा दुर्गतिहेतवस्तेषां सहिष्णुता (= तदधर्मसहिष्णुता) स्वस्मिंस्तत्फलाऽऽपत्त्या परदुःख परिजिहीर्षालक्षणा, यद् एतद् द्वयं कुशले चित्ते विषयीभवति तत्तत्त्वतोऽसम्भवि, बुद्धानां निर्वृतिप्रतिपादनात्, ‘गङ्गावालुकासमा बुद्धा निर्वृता'( ) इति परेषामागमव्यवस्थितेः, स्वाऽन्यधर्माऽधर्मयोः परेषु स्वस्मिंश्चोपसङ्कमे तदयोगात् ।
यदि चैवमसद्भूतार्थविषयं कुशलचित्तं प्रामाणिकं स्यात्तदा'मय्येव निपतत्वेतज्जगद्दश्चरितं यथा । मत्सुचरितयोगाच्च मुक्तिः स्यात्सर्वदेहिनाम् ।।'
(अष्टक २९/४) इतिवत् 'अज्ञानानां यदज्ञानमास्तां मय्येव तत्सदा । मदीयज्ञानयोगाच्च | चैतन्यं तेषु सर्वदा ।।' (अष्टक-२९/६ वृत्ति) इत्यपि परेण पठनीयं स्यात् ।।२४।।
अतो मोहाऽनुगं ह्येतन्निर्मोहानामसुन्दरम् ।
बोध्यादिप्रार्थनाकल्पं सरागत्वे तु साध्वपि ॥२५ ।। अत इति । अतः = उक्तकुशलचित्तस्य तत्त्वतोऽसम्भव्यर्थविषयत्वाद् एतद्धि मोहा। १. मुद्रितप्रतौ 'परजिहीषालक्षर्णा' इत्यशुद्धः पाठः ।
||६७।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org