________________
॥
क Fhee
।। ऽनुगं = मोहनीयकर्मोदयाऽनुगतं, मोहोदयाऽभावे हि समस्तविकल्पोत्कलिकावर्जितमेव चित्तं
स्यादिति निर्मोहानां = वीतरागाणां असुन्दरम् । तथा च कुशलचित्तस्य न मुख्यत्वं, निर्मोहत्वविरोधादित्यर्थः।
सरागत्वे तु = प्रशस्तरागदशायां त्वेतद् बोध्यादिप्रार्थनाकल्पम् आदिनाऽऽरोग्योत्तमसमाधिग्रहः, साध्वपि = प्रशस्तमपि, असम्भविविषयकयोरपि वाङ्-मनसोः प्रशस्तभावोत्कर्षकत्वेन चतुर्थ भङ्गाऽन्तःपातित्वसम्भवात् । तदुक्तं- 'बोध्यादिप्रार्थनाकल्पं सरागत्वे तु साध्वपि' (द्वा द्वा.४/२५)। ___ ननु चतुर्थभङ्गस्थवाङ्-मनसोर्भगवत्यपि सम्भवात् कथं न कुशलचित्तयोग इति चेत् ? न, वैकल्पिकभक्तिभावप्रयुक्तस्य चतुर्थभङ्गस्य प्रार्थनारूपस्य भगवत्यनुपपत्तेः ।
विचित्रवर्गणासद्भावेनैव तत्र तदुपवर्णनादिति बोध्यम् ।।२५।।
यदपि 'व्याघ्रादेः स्वकीयमांसदानादावतिकुशलं चित्तं बुद्धस्येष्यते, न चैतदर्हत इति नात्र महत्त्वमि'त्याशक्यते तदप्यसङ्गतम्, तच्चित्तस्यैवाऽनतिकुशलत्वेन' मोहाऽनुगतत्वाऽविशेषादित्यभिप्रायवानाह
सत्त्वधीरपि या स्वस्योपकारादपकारिणि ।
सात्मम्भरित्वपिशुना पराऽपायाऽनपेक्षिणी ।।२६।। | १. हस्तादर्श मुद्रितप्रतौ च 'चतुर्भग.... इति पाठः। २. हस्तादर्श 'कुशलत्वे' इति पाठः ।
।।६८।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org