SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 4 Fhoto सत्त्वधीरिति । याऽपि बुद्धस्य अपकारिणि = स्वमांसभक्षकव्याघ्रादौ स्वस्योपकारात् कर्मकक्षकर्तनसाहाय्यककरणलक्षणात् सत्त्वधीः, साऽऽत्मानमेव न परं बिभर्ति = पुष्णातीत्यात्मम्भरिस्तत्त्वं पिशुनयति = सूचयतीति आत्मम्भरित्वपिशुना परेषां स्वमांसभक्षकव्याघ्रादीनामपायान् दुर्गतिगमनादीन्नाऽपेक्षत इत्येवंशीला (= परापायाऽनपेक्षिणी) । तथा चाऽत्राऽऽताम्भरित्वं पराऽपायाऽनपेक्षत्वं च महद् दूषणमिति भावः । तदुक्तं - अपकारिणि सद्बुद्धिर्विशिष्टाऽर्थप्रसाधनात् । । आत्मम्भरित्वपिशुना परा(?तद)पायाऽनपेक्षिणी ।। (अष्टक २९/७) इति' ।।२६।। परार्थमात्ररसिकस्ततोऽनुपकृतोपकृत् । "अमूढलक्षो भगवान् महानित्येष मे मतिः ॥२७ ।। अर्हमित्यक्षरं यस्य चित्ते स्फुरति सर्वदा । परं ब्रह्म ततः शब्दब्रह्मणः सोऽधिगच्छति ।।२८।। परः सहस्राः शरदां परे 'योगमुपासताम् । "हन्ताऽर्हन्तमनासेव्य गन्तारो न परं पदम् ॥२९॥ १. हस्तादर्श 'उपका...' इति पाठः । २. मुद्रितप्रतौ 'इति' पदं नास्ति । ३. मुद्रितपुस्तकादौ ‘पदार्थ...' इत्यशुद्धः पाठः । ४. मुद्रितपुस्तकादौ 'अगूढलक्ष' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ 'यस्स' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'योगमुनपा...' इत्यशुद्धः पाठः । ७. हस्तादर्श ‘परं जिनमनन्तारो' इति पाठः । ४/२९ ।।६९।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy