________________
आत्माऽयमहतो ध्यानात्परमात्मत्वमश्नुते । रसविद्धं यथा तानं स्वर्णत्वमधिगच्छति ॥३०॥ पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः।।३१।। सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् ।
भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ।।३२॥ परार्थेत्याद्यारभ्य षट्श्लोकी सुगमा ।।२७।।२८।।२९।।३०।।३१।।३२।।
॥ इति जिनमहत्त्वद्वात्रिंशिका ।।४।।
॥ अथ भक्तिद्वात्रिंशिका ।।५।। जिनमहत्त्वज्ञानानन्तरं तत्र भक्तिरावश्यकीति सेयमिदानी प्रतिपाद्यते
श्रमणानामियं पूर्णा सूत्रोक्ताऽऽचारपालनात् ।
द्रव्यस्तवाद् गृहस्थानां देशतस्तद्विधिस्त्वयम् ।।१।। *श्रमणानामिति । इयं = भक्तिः ।।१।। १. मुद्रितप्रतौ 'मश्रुते' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘पदार्थे' इत्यशुद्धः पाठः । ३. हस्तादर्श ‘श्लोकाः' इति पाठान्तरम् । ४. मुद्रितप्रतौ 'श्रमणामिति' इत्यशुद्धः पाठः ।
।।७०।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org