SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ न च कुटुम्बाद्यर्थमारम्भप्रवृत्तत्वाद् गृहस्थस्य तत्राऽधिकारः, यतो नैकं पापमाचरितमित्यन्यदप्याचरितव्यं स्यात्, गुणान्तरलाभस्तु द्वयोरपि समानः” इति शङ्कनीयम्, तस्य = यतेः सर्वथा = सर्वप्रकारेण भावस्तवाऽधिरूढत्वाद् अमूदृशा = जिनपूजादिकर्मणा अर्थाऽभावात् = प्रयोजनाऽसिद्धेः । न हि यदाद्यभूमिकावस्थस्य गुणकरं तदुत्तरभूमिकावस्थस्याऽपि तथा, रोगचिकित्सावद्धर्मस्य शास्त्रे नियताऽधिकारिकत्वेन व्यवस्थितत्वात् । तदुक्तं- "अधिकारिवशात् शास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या विज्ञेया गुण-दोषयोः ।।" (अष्टक २/ ५) ।।२८।। प्रकृत्यारम्भभीरुर्वा यो वा सामायिकादिमान् । गृही तस्यापि नाऽत्राऽर्थेऽधिकारित्वमतः स्मृतम् ।।२९।। प्रकृत्येति । अतः = भावस्तवाऽधिरूढस्य यतेरत्राऽनधिकारित्वात् यः प्रकृत्याऽऽरम्भीरुयो वा सामायिकादिमान् (गृही) तस्याप्यत्राऽर्थे जिनपूजारूपे अधिकारित्वं न स्मृतम्। यदष्टकवृत्तिकृत् “अत एव सामायिकस्थः श्रावकोऽप्यनधिकारी, तस्याऽपि सावद्यनिवृत्ततया भावस्तवाऽऽरूढत्वेन श्रमणकल्पत्वात् । ____ अत एव गृहिणोऽपि प्रकृत्या पृथिव्याधुपमर्दनभीरोर्यतनावतः सावद्यसंक्षेपरुचेर्यतिक्रियाऽनुरागिणो न धर्मार्थं सावद्याऽऽरम्भप्रवृत्तिर्युक्ते"ति (अष्टकवृत्ति-२/५) ।।२९।। १. हस्ताद” 'अर्था' नास्ति । २. हस्तादर्श 'प्रयोजेना...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'यत्पंचाशकवृत्तिकृत्' इत्यशुद्धतरः पाठः । ५/२९ ।।८८।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy