SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ का न च स्नानादिना कायवधादत्राऽस्ति दुष्टता । दोषादधिकभावस्य तत्राऽऽनुभविकत्वतः ॥२७॥ न चेति । न चात्र = पूजाविधौ कायवधात् = जलवनस्पत्यादिविराधनात् स्नानादिना दुष्टताऽस्ति, दोषात् = कायवधदोषाद् अधिकभावस्य = स्नानादिजनिताऽधिकशुभाऽध्यवसायस्य (तत्र) आनुभविकत्वतः = अनुभवसिद्धत्वात् । तदिदमुक्तं स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ।। कूपोदाहरणादिह कायवधोऽपि गुणवान्मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ।। कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विमलधियः ।। (षोडशक-९/१३-१४-१५) ।।२७।। यतिरप्यधिकारी स्यान्न चैवं तस्य सर्वथा । भावस्तवाऽधिरूढत्वादर्थाऽभावादमूदृशा ।।२८।। यतिरपीति । न चैवं = “स्नानादेरदुष्टत्वाद् यतिरप्यत्राधिकारी स्यात्, विभूषार्थस्नानादेस्तस्य निषेधेऽपि पूजार्थस्नानादेर्निषेद्धुमशक्यत्वात्, अन्यथा गृहस्थस्याऽपि तन्निषेधप्रसङ्गात् । १. हस्तादर्श 'गुणिनां' इति पाठः । स चाऽशुद्धः । ५/२८ ||८७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy