SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ काययोगप्रधाना, वाग्योगप्रधाना मनोयोगप्रधाना च । शुद्धिचित्ततः (वित्तशुद्धितः) कायादिदोषपरिहाराऽभिप्रायाद् अतिचारोज्झिता शुद्ध्यतिचारविकला यथाक्रमं विघ्नशमदा, अभ्युदयदा मोक्षदा' च' (=विघ्नशमाऽभ्युदय-मोक्षदा) । तदुक्तं षोडशके 'कायादियोगसारा त्रिविधा तच्छुद्ध्युपात्तवित्तेन । या तदतिचाररहिता सा परमाऽन्ये 'तु समयविदः ।। विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चाऽन्या । निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञाभिः ।।' (षो.९/९-१०) ।।२५।। आद्ययोश्चारुपुष्पाद्यानयनैतन्नियोजने । अन्त्यायां मनसा सर्वं सम्पादयति सुन्दरम् ।।२६।। आद्ययोरिति । आद्ययोः काय-वाग्योगसारयोः पूजयोः क्रमात्पुष्पादिकं = प्रधानपुष्पगन्धमाल्यादिकं सेवते च स्वयमेव ददात्यानयति च वचनेनाऽन्यतोऽपि क्षेत्रात् । तदुक्तं प्रवरं पुष्पादि सदा चाऽऽद्यायां सेवते तु तदाता । आनयति चाऽन्यतोऽपि हि नियमादेव द्वितीयायाम् ।।' (षोडशक-९/११) ___ अन्त्यायां = मनोयोगसारायां सर्वं सुन्दरं पारिजातकुसुमादि मनसा सम्पादयति । तदुक्तं- “त्रैलोक्यसुन्दरं यन्मनसाऽऽपादयति तत्तु चरमायाम्।” (षोड. ९/१२) इति ।।२६।। १. हस्तादर्श 'मोक्षदः' इत्यशुद्धः पाठः । २. हस्तप्रतौ ' चित्तेन' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'परमान्येति' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ....योगसारं (सारायां)' इति पाठः । 11८६।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy