SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ इयं न्यायोत्थवित्तेन कार्या भक्तिमता सता । विशुद्धोज्ज्वलवस्त्रेण शुचिना संय(?)तात्मना ।।२३।। __इयमिति । इयं = पूजा न्यायोत्थवित्तेन = भावविशेषात्परिशोधितद्रव्येण भक्तिमता सता कार्या विशुद्धं पट्टयुग्मादि रक्त-पीतादिवर्णमुज्ज्वलं च वस्त्रं यस्य तेन ( विशुद्धोज्ज्वलवस्त्रेण), तदुक्तं ‘सितशुभवस्त्रेण' (षोडशक-९/५) इति । शुचिना द्रव्यतो देश-सर्वस्नानाभ्यां भावतश्च विशुद्धाऽध्यवसायेन संवृताऽऽत्मना = अङ्गोपाङ्गेन्द्रियसंवरवता ।।२३।। पिण्ड-क्रिया-गुणोदारैरेषा स्तोत्रैश्च सङ्गता । पापग परैः सम्यक्प्रणिधानपुरःसरैः ।।२४।। पिण्डेति । पिण्डं = शरीरमष्टोत्तरलक्षणसहस्रकलितं, क्रिया = आचारो दुर्वारपरीषहोपसर्गजयलक्षणः, गुणाः = श्रद्धा-ज्ञान-विरतिपरिणामादयः केवलज्ञान-दर्शनादयश्च तैरुदारैः = गम्भीरैः (=पिण्डक्रिया-गुणोदारैः) पापानां = राग-द्वेष-मोहपूर्वं स्वयंकृतानां गर्हा = भगवत्साक्षिकनिन्दारूपा तया परैः = प्रकृष्टैः (=पापगर्हापरैः) सम्यक् = समीचीनं यत्प्रणिधानं = ऐकाग्र्यं तत्पुरःसरैः (=सम्यकप्रणिधानपुरःसरैः) स्तोत्रैश्चैषा = पूजा सङ्गता ।।२४।। ___ अन्ये त्वाहुस्त्रिधा योगसारा सा शुद्धिचित्ततः (वित्तशुद्धितः) । ॥८५ । अतिचारोज्झिता विघ्नशमाऽभ्युदय-मोक्षदा ।।२५।। अन्ये त्विति । अन्ये तु आचार्याः आहुः = प्राहुः ‘सा = पूजा योगसारा त्रिधा ५/२५ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy