SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ तस्मात्स्थापनात्वेऽवस्थान्तरकल्पनाविशेषाद् भाववृद्ध्यैव विहितत्वात्तवापि सिध्येद्येन स्थापनमपि अश्लील(न) स्यादतो नैव शङ्का-व्यभिचारित्वम्(?त्वे)]। ___ अष्टौ दिनानि यावत् अविच्छित्त्या = नैरन्तर्येण पूजा बिम्बस्य दानं च (भावतः) विभवानुसारेण शासनोन्नतिनिमित्तमिति ।।२०।। पूजा प्रतिष्ठितस्येत्थं बिम्बस्य क्रियतेऽर्हतः । भक्त्या विलेपन-स्नान-पुष्प-धूपादिभिः शुभैः ॥२१॥ पूजेति व्यक्तः ।।२१।। सा च पञ्चोपचारा स्यात् काचिदष्टोपचारिका' । अपि सर्वोपचारा च निजसम्पद्विशेषतः ।।२२।। सा चेति । (सा च) पञ्चोपचारा जानु-करद्वयोत्तमाऽगैरुपचारयुक्ता, आगमप्रसिद्धैः पञ्चभिर्विनयस्थानैर्वा, (काचित्) अष्टोपचारिका = अष्टभिरङ्गरुपचारो यस्यां भवति, तानि चामूनिसीसमुरोअरपिट्ठी दो बाहू उरूआ य अट्ठङ्गा' (आवश्यकनियुक्तिभाष्य१६०) । ___ सर्वोपचारापि च (स्याद्) देवेन्द्रन्यायेन निजसम्पद्विशेषतः = सर्वबलविभूत्यादिना ।।२२।। ।।।।८।। १. हस्तादर्श 'प्टोचारि...' इति पाठः । २. मुद्रितप्रतौ ...न्द्रयायेन' इति त्रुटितोऽशुद्धश्च पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy