SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ EM ।। च यथाप्रतीति शबल-वस्त्वभ्युपगमोऽपि बलादापतेदिति किमतिपल्लवितेन ।।१९।। सम्प्रदायागतं चेह मन्त्रन्यासादि युक्तिमत् । अष्टौ दिनान्यविच्छित्त्या पूजा दानं च भावतः ॥२०॥ सम्प्रदायेति । इह = प्रतिष्ठाविधौ मन्त्रन्यासादिकं च क्षेत्रसंशोधनाऽभिवर्षणादिनिष्पत्तये वायुमेघकुमारादिविषयं संप्रदायाऽऽगतं = शिष्टपारम्पर्याऽऽयातं युक्तिमद् भवति । [परः प्राह- इत्थं विशिष्टन्यायार्जने(? न्यायार्जितद्रव्य)भावशुद्धनिष्पन्नबिम्बस्य स्थापनाऽवसरे बल्यादेः विघ्नोपशान्त्यर्थमापादनमसारम्, भावशुद्धेनैव(? भावशुद्धयैव) सिद्धेः । मैवम्, भावसत्याऽन्तरितस्थापनायां तत्प्राधान्यात्सत्यताऽतिशयेन स्वारसिकेनैव सिद्धेः। अत्र तूपचारादेव क्षेत्राऽधिष्ठातृप्रस्तुतशान्त्याद्यर्थं शासनोन्नतित्वेन विशेषाऽभ्युदयतासिद्धेः, अन्यथाऽप्रतिष्ठापत्तेः। केवलं भावसिद्धत्वे, पद्मासन-पर्यङ्कादिमुद्राविधीयमानत्वे, सिद्धावस्थात्वे जलाभिषेकादिव्यवहृतित्वमनापत्तिः यत्परैरुच्यते तन्न, तदेवाऽभिमतफलेप्सिताऽवाप्तिपूर्वकज्ञायकसिद्धद्रव्यशरीरमत्त्वे(? शरीरत्वे)नाऽमरैरपि तद्विहितत्वात् सर्वसावद्य(?द्यनि)वृत्तिमतामनिष्टापत्तिर्भवितेत्यारेकापहारः । ।।८३ ।। १. हस्तादर्श 'भवतः' इति पाठः । २. [ ] बैंसमा मापेख पृ९.३४८ सुधानो विस्तृत 416 संवा पाश्रयनी तेम पाटन मं.२नी .लि. प्रतम नथी. ३. मुद्रितप्रतौ 'बल्यादिवि...' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy