________________
श्रयस्य पूज्यताप्रयोजकमभ्युपयन्ति, तेषां तद्व्यक्तिविशिष्टसम्बन्धानहेऽतिप्रसङ्गः ।
तद्ग्रहे चाऽननुगम इति । यत्पुनरुच्यते चिन्तामणिकृता - 'प्रतिष्ठितं पूजयेदिति विधिवाक्येन प्रतिष्ठायाः कारणत्वं न बोध्यते, किं तु भूताऽर्थे क्ताऽनुशासनादतीतप्रतिष्ठे पूज्यत्वं बोध्यते ।
तथा च प्रतिष्ठाध्वंसः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शादिप्रतियोगिकाऽनादिसंसर्गाऽभावसहितः पूज्यत्वप्रयोजकः । स च प्रागभावोऽत्यन्ताऽभावश्च क्वचिदिति- (तत्त्वचिन्तामणि ईश्वरसिद्धिप्रकरण) तदप्यविचारितरमणीयम् ।।
प्रतिष्ठायाः क्रियेच्छारूपत्वे तदध्वंसस्य प्रतिमाऽनिष्ठत्वात ।
संयोगरूपत्वेऽपि द्विष्ठत्वात्, कारणीभूताऽभावप्रतियोगित्वेन पूजाफले प्रतिष्ठायाः प्रतिबन्ध कत्वव्यवहाराऽऽपत्तेः', क्तप्रत्ययस्थलेऽपि 'प्रोक्षिता व्रीहयः'( ) इत्यादौ ध्वंसव्यापारकत्वाऽकल्पनात, कालान्तरभाविनि फले चिरनष्टस्य भावव्यापारकत्वनियमाच्च. अन्यथाऽपूर्वोच्छेदाऽऽपत्तेश्च ।
किञ्च किञ्चिदवयवनाशेन प्रतिमान्तरोत्पत्तौ तव तत्र प्रतिष्ठाध्वंसाऽनभ्युपगमात्पूज्यताऽनापत्तिः। 'प्रतिष्ठितत्वबुद्धिबलाद् व्रीहिषु संस्कृतत्वस्येव तेन तस्य न क्षति रित्यभ्युपगमे १. मुद्रितप्रतौ 'प्रतिष्ठिताया' इति पाठः । २. हस्तादर्श ....सतः' इति त्रुटितोऽशुद्धश्च पाठः । ३. मुद्रितप्रतौ 'कारणीभूत..' इत्यशुद्धः पाठः । ४. हस्तादर्श 'प्रतितिबन्ध..' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ .रोपपत्तेः' इत्यशुद्धः पाठः ।
।।८२।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org