________________
'इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा बालक्रीडासमा भवति ।।' (षोडशक-८/६-७) इति' ।
एतेन ‘प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधिरहङ्कारममकाररूपा क्रियते, विशेषदर्शनेऽपि स्वसादृश्यदर्शिनश्चित्रादाविवाऽऽहाऽऽरोपसम्भवात, ज्ञानस्य नाशेऽपि संस्कारसत्त्वाच्च न पूजाफलाऽनुपपत्तिः, अस्पृश्यस्पर्शनादिना' च तन्नाशः' इति यत्परैरुच्यते तन्निरस्तं भवति ।
वीतरागदेवस्थले इत्थं वक्तुमशक्यत्वात्, सरागे देवत्वबुद्धेरेव च मिथ्यात्वात् ।
देवतायां सर्वज्ञत्वाऽभावे व्यासङ्गदशायां व्यवहितनानादेशेषु प्रतिष्ठाकर्मबाहुल्ये चाऽहङ्कारममकाराऽनुपपत्तेः ।
संस्कारनाशेऽपूज्यत्वाऽऽपत्तेः, तज्ज्ञानसंस्कारयोरननुगतयोः पूजाफलप्रयोजकत्वे गौरवाच्चेति।
न च भवतामपि व्यासङ्गवशात्प्रतिष्ठितत्वज्ञानाऽभावे पूजाफलाऽनुपपत्तिरिति, विशेषफलाऽभावेऽपि प्रीत्यादिना सामान्यफलाऽनपायात् । __यैस्तु यथार्थं प्रतिष्ठितत्वप्रत्यभिज्ञानं पूजाफलसामान्य एव प्रयोजकमिष्यते तेषामयमपि दोष एव ।
ये तु नव्यनैयायिकाः५ - प्रतिष्ठाविधिना जनितं विचित्रमदृष्टं स्वाऽऽश्रयाऽऽत्मसंयोगाऽऽ१. मुद्रितप्रतौ 'इति' पदं नास्ति । २. मुद्रितप्रतौ 'प्रतिमादा' इत्यशुद्धः पाठः । ३. हस्तादर्श 'स्पर्शादे' इति अशुद्धः पाठः । ४. मुद्रितप्रतौ '..रनुगतयोः' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ ...नैयानिका' इत्यशुद्धः पाठः ।
।।८१।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org