SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ का चारद्वारेण, निज एव हि भावो मुख्यदेवतास्वरूपाऽऽलम्बनः ‘स एवायमि'त्यभेदोपचारेण विदुषां भक्तिमतां पूज्यतापदवीमासादयती"ति (षोडशक-८/९ सुगमार्थकल्पनावृत्ति) । न चैवं तदध्यवसायनाशात्प्रतिमाया अप्रतिष्ठितत्वाऽऽपत्तिरिति शङ्कनीयम्, तन्नाशेऽपि तदाऽऽहितस्योपचरितस्वभावविशेषस्याऽनाशात् । द्विविधो ह्युपचरितस्वभावो गीयते- स्वाभाविक औपाधिकश्च, आद्यः परज्ञता-परदर्शकत्वलक्षणः, अन्त्यश्च विचित्र इति न दोषः ।।१८।। प्रतिष्ठितत्वज्ञानोत्थसमापत्त्या परेष्वपि । फलं स्याद्वीतरागाणां सन्निधानं त्वसम्भवि ।।१९।। प्रतिष्ठितत्वेति । प्रतिष्ठितत्वज्ञानोत्थया = पर्व-पर्वप्रतिष्ठितत्वप्रतिसन्धानोत्थापितवचनाऽऽदरभगवद्बहुमानाऽऽहितया समापत्या (प्रतिष्ठितत्वज्ञानोत्थसमापत्त्या) 'परेष्वपि = प्रतिमापूजाकारिष्वपि फलं = विपलनिर्जरालक्षणं स्यात । ____वीतरागाणां = रागरहितानां सन्निधानं तु समीपागमनरूपं कायिकमहङ्कारममकाररूपं मानसं च मन्त्रसंस्कारादिना असम्भवि । तदुक्तं मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । "स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ।। १. हस्तादर्श 'अप्रतितत्वा...' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रती 'प्रतिष्ठित्व...' इत्यशुद्धः पाठः । ३. हस्तादर्श '...पूर्वप्रप्रतिसं..' इति त्रुटितोऽशुद्धश्च पाठः । ४. मुद्रितप्रतौ 'परष्वपि' इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ 'स्थाप्येन' इतिपदच्छेदशून्यतया भ्रामकः पाठः । ।।८ ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy