________________
क dE his its f
क्ति
त्रिं
शि
का
५/१८
Jain Education International
आत्मनः = स्वस्य धियो वीतरागत्वादिगुणाऽवगाहिन्या मुख्या = निरुपचरिता इयं = प्रतिष्ठा, 'स्वार्थाऽबाधात्, प्रतिष्ठाकर्मणा वचननीत्या स्वभावस्यैव स्थापनात् । तदिदमुक्तं'भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् ।
स्वात्मन्येव परं यत्स्थापनमिह वचननीत्योच्चैः ।। ' ( षोडशक - ८ / ४ ) इति । तत एव स्थापये वीतरागे समरसापत्तेः, वचनाऽनलक्रियादग्धकर्ममलस्याऽऽत्मनो वीतरागत्वलक्षणस्वर्णभावाऽऽपत्तिरूपपरमप्रतिष्ठाया हेतुत्वादप्यस्य मुख्यत्वम् । यदाह'बीजमिदं परमं यत्परमाया एव समरसाऽऽपत्तेः ।
स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया ।। ' ( षोडशक - ८/५ ) इति । तथा, 'भावरसेन्द्रात्तु ततो महोदयाज्जीवताम्रस्वरूपस्य ।
कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता ।। वचनाऽनलक्रियातः कर्मेन्धनदाहतो यतश्चैषा । इतिकर्तव्यतयाऽतः सफलैषाप्यत्र भावविधौ ।।' ( षोडशक- ८/८-९ )
नन्वेवं प्रतिष्ठाकारयितर्येव प्रतिष्ठोपपादने प्रतिमायां प्रतिष्ठितत्वव्यवहारः, तस्यां च पूजादिफलप्रयोजकत्वं कथं स्यात् ? अत आह- उपचारात् बहिः = प्रतिमायां पुनः इयं प्रतिष्ठा भवति, यत् षोडशकवृत्तिकृत् “बाह्यजिनबिम्बगता तु प्रतिष्ठा बहिर्निजभावोप१. मुद्रितप्रतौ 'स्वार्थाऽबोधात्' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ' स्थापना' इति पाठः । ३. हस्तादर्शे 'इति' पदं नास्ति । ४. मुद्रितप्रतौ '...तास्वरू...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
=
।।७९ ।।
www.jainelibrary.org