SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 町佈可分可可 भ द्वा शि का ५/१८ Jain Education International इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाप्तैस्त्रिधोदिता । दिनेभ्योऽर्वाग्दशभ्यस्तु व्यक्ति - क्षेत्र - महाह्वयाः ।।१७।। इत्थमिति । इत्थं = उक्तविधिना निष्पन्नस्य बिम्बस्य ( = निष्पन्नबिम्बस्य ) प्रतिष्ठा आप्तैः = शिष्टैः त्रिधोदिता दशभ्यस्तु = दशभ्य एव दिनेभ्योऽर्वाक् 'दशदिवसाऽभ्यन्तरतः' ( षोड. ८/१) इत्युक्तेः । व्यक्ति - क्षेत्र - महाह्वयाः - व्यक्तिप्रतिष्ठा क्षेत्रप्रतिष्ठा महाप्रतिष्ठा चेति । तत्र वर्तमानस्य तीर्थकृतः प्रतिष्ठा = व्यक्तिप्रतिष्ठा। ऋषभादिचतुर्विंशतितीर्थकृतां प्रतिष्ठा च क्षेत्रप्रतिष्ठा । 'सप्तत्यधिकशतजिनप्रतिष्ठा च सर्वक्षेत्राऽपेक्षया महाप्रतिष्ठा । तदाह 'व्यक्त्याख्या खल्वेका क्षेत्राऽऽख्या चाऽपरा महाऽऽख्या च । यस्तीर्थकृद्यदा किल तस्य तदाऽऽद्येति समयविदः ।। ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ।। ' ( षोडशक- ८ / २-३ ) ।।१७।। देवोद्देशेन मुख्येयमाऽऽत्मन्येवात्मनो धियः । स्थाप्ये समरसापत्तेरुपचाराद् बहिः पुनः ।। १८ ।। देवोद्देशेनेति । देवोद्देशेन = मुख्यदेवमुद्देश्यतया विषयीकृत्य आत्मन्येव = कारयितर्येव १. हस्तादर्शे 'सप्तधि...' इति त्रुटितः पाठः । २. मुद्रितप्रती ' च परा' इति पाठः । For Private & Personal Use Only ।। ७८ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy