________________
F稀可伢何可
भ
क्ति
द्वा
त्रिं
शि
का
५/१६
Jain Education International
कश्चन बिम्बे, किन्तु भावतः = परिणामात् ।
=
स परिणामः तन्त्रोक्तस्मृतिमूलया = आगमवचनस्मरणपूर्विकया ( भक्त्या) चेष्टया - प्रवृत्त्या शुभो भवति, भक्ति-बहुमान -विनयादिलिङ्गानामागमाऽनुसरणमूलत्वात् । तदिदमाह 'बिम्बं महत् सुरूपं कनकादिमयश्च यः खलु विशेषः । नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् ।।
आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः ।
चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः ।।' ( षोडशक- ७ / १२-१३ ) इति ।।१५।। लोकोत्तरमिदं ज्ञेयमित्थं यद् बिम्बकारणम् ।
मोक्षदं लौकिकं चान्यत् (? मन्यच्च) कुर्यादभ्युदयं फलम् ।। १६ ।। लोकोत्तरमिति । इत्थं = आगमोक्तविधिस्मृतिगर्भचेष्टाशुद्धेन यद् बिम्बकारणमिदं लोकोत्तरं मोक्षदं च (ज्ञेयम् = ) ज्ञातव्यम् । अन्यच्च = उक्तविपरीतं च बिम्बकारणं लौकिकं सद् अभ्युदयं फलं कुर्यात् । पूर्वस्मिन्नभ्युदयस्याऽऽनुषङ्गिकत्वं, अत्र च मुख्यत्वमिति विशेषः । तदिदमुक्तं
' एवंविधेन यद् बिम्बकारणं तद्वदन्ति समयविदः । लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ।। लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाऽऽश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्राऽनुषङ्गेण ।।' ( षो. ७ / १४-१५) ।। १६ ।।
For Private & Personal Use Only
110011
www.jainelibrary.org