________________
Edo
स्ववित्तस्थेऽन्यवित्ते तत्पुण्याऽऽशंसा विधीयते ।
मन्त्रन्यासोऽर्हतो' नाम्ना स्वाहाऽन्तः प्रणवादिकः ।।१४।। ___स्ववित्तस्थ इति । स्ववित्तस्थे कथञ्चित्स्वधनाऽन्तःप्रविष्टे (अन्यवित्ते =) परवित्ते सति तस्य = परस्य पुण्याऽऽशंसा 'अत्रस्थात्परधनांऽशात्परस्यापि पुण्यं भवत्वि'तीच्छारूपा (= तत्पुण्याशंसा) विधीयते, एवं हि परकीयवित्तेन स्ववित्ताऽनुप्रविष्टेन पुण्यकरणाऽनभिलाषाद् भावशुद्धं न्यायाऽर्जितं वित्तं भवतीति । ___ तदिदमुक्तं- 'यद्यस्य सत्कमनुचितमिह वित्ते तस्य तज्जमिह पुण्यम् । ___भवतु शुभाऽऽशयकरणादित्येतद्भावशुद्धं स्यात् ।।' (षोडशक-७/१०) इति । तथा अर्हतोऽधिकृतस्य नाम्ना मध्यगतेन प्रणवाऽऽदिकः स्वाहाऽन्तः च मन्त्रन्यासो विधीयते, मनन-त्राणहेतुत्वेनाऽस्यैव परममन्त्रत्वात्। यदाह- ‘मन्त्रन्यासश्च तथा प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो मनन-त्राणे ह्यतो नियमात् ।।' (षो.७/११) इति ।।१४।।
हेमादिना विशेषस्तु न बिम्बे किन्तु भावतः ।
चेष्टया स शुभो भक्त्या तन्त्रोक्तस्मृतिमूलया ।।१५।। हेमादिनेति । हेम = सुवर्णम्, आदिना रत्नादिग्रहस्तेन (= हेमादिना) तु न विशेषः १. हस्तादर्श 'न्यासाहता' इत्यशुद्धः पाठः ।
||७६।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org