________________
पूर्या 'दौर्हृदभेदास्तज्जिनावस्थात्रयाश्रयाः ।।१३॥ तत्कर्तरि चेति । तत्कर्तरि च = बिम्बनिर्मातरि च याऽप्रीतिः सा तत्त्वतः = फलतो जिने स्मृता, तदालम्बनकाया अपि तस्या जिनो द्देश्यकत्वात् । सा च सर्वापायहेतुरिति तत्परिहारे यत्नो विधेयः। तदाह
अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया । सर्वाऽपायनिमित्तं ह्येषा पापा न कर्तव्या ।। (षोडशक-७/७)
तत् = तदप्रीतेः सर्वथा परिहार्यत्वात् 'दौर्हृदभेदाः = शिल्पिगता बाल-कुमारयुवलक्षणाऽवस्थात्रयगामिनो मनोरथाः तदवस्थात्रयमनादृत्य जिनाऽवस्थात्रयाऽऽश्रयाः प्रतिमागताऽवस्थात्रयोद्भावनेन मनसोत्थापिताः सन्तः (पूर्याः=) पूरणीयाः क्रीडनकाद्युपढौकनादिना, इत्थमेव भगवद्भक्तिप्रकर्षापपत्तेः। यदाह
'अधिकगुणस्थैर्नियमात् कारयितव्यं स्वदौहुंदैर्युक्तम् । न्यायाऽर्जितवित्तेन तु जिनबिम्बं भावशुद्धेन ।। अत्राऽवस्थात्रयगामिनो बुधैौर्हृदाः समाख्याताः ।
"बालाद्याश्चैत्ता यत्तत्क्रीडनकादि देयमिति।।' (षोडशक-७/८-९) ।।१३।। १. हस्तादर्श 'दोहद' इति पाठः । २. ....देशक.....' इति मुद्रितप्रतौ पाठः । ३. मुद्रितप्रतौ 'तत्' पदं नास्ति । ४. हस्तादर्श 'दौहृद' इति पाठः । ५. हस्तादर्श '...त्रयाश्र' इति त्रुटितः पाठः । ६. हस्तादर्श 'भावेन' इति पाठः । ७. मुद्रितप्रतौ 'बालद्या' इति पाठः ।
५/१३
।।७५।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org