SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ भी 2 बम जीवेति । जीववृत्तिविशिष्टः = क्षेत्रज्ञवृत्तित्वविशिष्टो योऽङ्गाऽभावः = उत्कृष्टज्ञानाऽवच्छेदकशरीराऽभावस्तदभावग्रहोऽपि = तदभावनिवेशोऽपि (=जीववृत्तिविशिष्टाङ्गाभावाभावग्रहोऽपि) काकेश्वरयोरतिव्याप्त्यव्याप्तिवारणार्थं असन् = न दुष्टलक्षणसमाधानसमर्थः । यद् = यस्माद् उत्कर्षश्चाऽपकर्षश्च अपेक्षयाऽव्यवस्थः । कीटिकादिज्ञानाऽपेक्षयोत्कृष्टत्वात् काकादिज्ञानस्य, ब्राह्मणादिज्ञानस्य च देवादिज्ञानाऽपेक्षयाऽपकृष्टत्वात् । इत्थं च तदवस्थे' एवाऽतिव्याप्त्यव्याप्ती । न च काकादिज्ञानव्यावृत्तं मनुष्यादिज्ञानसाधारणमुत्कर्षं नाम जातिविशेषमाद्रियन्ते भवन्तः, अन्यथा कार्यमात्रवृत्तिजातेः कार्यताऽवच्छेदकत्वनियमेन तदवच्छिन्नेऽनुगतकारणकल्पनाऽऽपत्तिः । ___ 'ईश्वरज्ञानसाधारण्यान्न तस्य कार्यमात्रवृत्तित्वमिति' चेत् ? तथापि देवदत्तादिजन्यताऽवच्छेदिकयाऽपकर्षविशेषेण च साकर्यान्न जातित्वं । तत्तज्ज्ञानाऽवच्छेदकशरीरसम्बन्धाऽभावकूटस्तु दुर्ग्रह इति न किञ्चिदेतत् ।।२६।। ननु एकजन्मावच्छेदेन स्वसमानाधिकरणस्वोत्तरवेदाऽप्रामाण्याऽभ्युपग मध्वंसाऽनाधार१. मुद्रितप्रतौ ...रतिव्याप्तिवारणा..' इति त्रुटितोऽशुद्धश्च पाठः । २. हस्तादर्श ...धानासमर्थ' इत्यशुद्धः पाठः । ३. 'अपेक्षया व्यवस्थित' इति पाठो मुद्रितप्रतौ । मूलग्रन्थानुसारेण शुद्धोऽपेक्षितः पाठोऽस्माभिरत्र योजितः । ४. हस्तादर्श ...वस्थ एव.' इति पाठः । ५. हस्तादर्श ‘वत्कू...' इत्यशुद्धः पाठः । ६. 'वेदप्रामा...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ७. हस्तादर्श '...पमध्वं...' इत्यशुद्धः पाठः । १५/२६ ||२६८। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy