________________
यत्किंञ्चिदिति । यत्किञ्चित्तद्ग्रहे = यत्किञ्चिद्वेदप्रामाण्याऽभ्युपगमस्य लक्षणमध्यनिवेशे काकस्य' जन्मनः पश्चात् प्राक् च (विप्रजन्माऽन्तराले=) विप्रजन्मनोरन्तराले = अप्राप्तिविश्लेषाभ्यां मध्यभावे ध्वंस-प्रागभावतः = काकशरीरसम्बन्धध्वंसप्रागभावावाश्रित्य सा प्रसिद्धाऽतिव्याप्तिः स्यात् ।
अयं भावः- यो ब्राह्मणः काको जातस्तदनन्तरं च ब्राह्मणो भविष्यति तस्य मरणाऽनन्तरं ब्राह्मणशरीराऽग्रहदशायामुत्तरब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरध्वंसेनैव लक्षणसाम्राज्यादतिव्याप्तिः ।
प्राक्तनकाकशरीरसम्बन्धप्रागभावस्तु न तत्समानकालीन एवेति ।
तस्यैव च ब्राह्मणभवत्यागाऽनन्तरं काकशरीराऽग्रहदशायां प्राक्तनब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरसम्बन्धप्रागभावेनाऽतिव्याप्तिरिति ।
किं च यो ब्राह्मणः प्राग् बौद्धो वृत्तस्तस्य स्वापादिदशायां वेदाऽप्रामाण्याऽभ्युपगमविरहस्याऽग्रिमब्राह्मणभवीयनिरुक्तयावच्छरीरसम्बन्धाभावसमानकालीनत्वात्तत्रातिव्याप्तिरिति बोध्यम् ।।२५।।
जीववृत्तिविशिष्टाङ्गाऽभावाऽभावग्रहोऽप्यसन् ।
उत्कर्षश्चाऽपकर्षश्चाऽव्यवस्थो यदपेक्षया ॥२६॥ १. हस्तादर्श 'काकजन्म' इति मूलकारिकानुसारेणाऽशुद्धः पाठः । २. हस्तादर्श'..दव्याप्तिः' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'च' नास्ति । ४. हस्तादर्श'...वेनाव्याप्ति...' इत्यशुद्धः पाठः । ५. हस्तादर्श'...याच्छ...' इत्यशुद्धः पाठः।
१५/२६||
||२६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org