SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ___ अन्यथोत्तरकालं तत्कालीन यत्किंचिद्व्यधिकरणाऽपकृष्टज्ञानाऽवच्छेदकशरीरसम्बन्धप्रागभावनाशेनाऽव्याप्त्यापत्तेः ।।२३।। नैवं तदुत्तरे विप्रेऽव्याप्तेः प्राक्प्रतिपत्तितः । प्रामाण्योपगमात्तन्न प्राक् तत्रेति न सेति चेत् ।।२४।। नैवमिति । नैवं = यथा विवक्षितं प्राक्, तदुत्तरे विप्रे = काकभवोत्तरमवाप्तब्राह्मणभवे प्राक्प्रतिपत्तितः = प्राग्भवीयवेदप्रामाण्यग्रहमाश्रित्य अव्याप्तेः । तदानीं तदीयवेदाप्रामाण्याऽभ्युपगमविरहस्य प्राक्तनब्राह्मणभवीयवेदप्रामाण्याऽभ्युपगमसमानकालीनयावदपकृष्टज्ञाना-वच्छेदकशरीरसम्बन्धविरहाउसमानकालीनत्वाद्, आन्तरालिककाकभव एव काकशरीरसम्बन्धप्रागभावनाशात् । ___प्रामाण्योपगमाद् = वेदप्रामाण्याऽभ्युपगमात् प्राक् तत्र काकभवोत्तरब्राह्मणे तत् = शिष्टत्वं न इति हेतोरलक्ष्यत्वादेव न सा = अव्याप्तिः। वेदप्रामाण्याऽभ्युपगमे तु लक्षणसम्पत्त्यैवेति भावः। इति चेत् ? नन्वेवं यत्किंचिद्वेदप्रामाण्याऽभ्युपगम एव ग्राह्यः ।।२४।। तथा च - यत्किञ्चित्तद्ग्रहे पश्चात् प्राक् च काकस्य जन्मनः । विप्रजन्माऽन्तराले स्यात्सा ध्वंसप्रागभावतः।।२५।। १. '...लीनंय...' इति मुद्रितप्रतावशुद्धः पाठः । १५/२५ 1॥२६६।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy