SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ अप्रामाण्याऽनुपगमस्तावत्कालीन एव हि। शिष्टत्वं काकदेहस्य' प्रागभावस्तदा च न।।२३।। अवच्छेदकेति । अथ प्रामाण्योपगमे सति वेदप्रामाण्याऽभ्युपगमकाले यावान् अप| कृष्टधियां अवच्छेदकदेहानां' = अपकृष्टज्ञानाऽवच्छेदकशरीराणां सम्बन्धविरहः = सम्बन्धाऽभावः ।।२२।। ____ अप्रामाण्येति । तावत्कालीन एव हि = सकलतत्समानकालीन एव अप्रामाण्याऽनुपगमः = वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वम् । काकदेहस्य प्रागभावो वेदप्रामाण्याऽभ्युपगमसमानकालीनः तदा च = काकस्य मरणाऽनन्तरं शरीरान्तराऽग्रहदशायां न अस्तीति नाऽतिव्याप्तिः । इत्थं च यावन्तं कालं वेदत्वेन वेदाऽप्रामाण्याभ्युपगमस्य विरहो वेदप्रामाण्याऽभ्युपगमसमानकालीनयावदप कृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावसमानकालीनस्तावन्तं कालं स शिष्ट: । ब्राह्मणोऽपि बौद्धो जातो वेदाऽप्रामाण्यं यावन्नाऽभ्युपगतवान् तावच्छिष्ट एव । बौद्धोऽपि ब्राह्मणो जातो वेदप्रामाण्यं यावन्नाऽङ्गीकृतवांस्तावदशिष्ट एवेति फलितमाह पद्मनाभः । ___ अत्र च वेदप्रामाण्याऽभ्युपगमसमानकालीनत्वव त्तत्सामानाधिकरण्यमपि वाच्यम् । १५/२३ ॥२६५। १. हस्तादर्श शिष्टत्वे' इत्यशुद्धः पाठः । २. हस्तादर्श'...देहस्याप्राग...' इत्यशुद्धः पाठः । ३. '...देहनां' इत्यशुद्धः पाठो हस्तप्रतौ । ४. '...दप्रकृ...' इति मुद्रितप्रतौ पाठः । ५. हस्तादर्श 'लीनत्वं वत्त...' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy