________________
E
प्राप्तः तदापि हि स्यात्, ब्राह्मण्यदशायां 'वेदप्रामाण्याऽभ्युपगन्तृत्वात् काकदशायां च वेदाऽप्रामाण्याऽनभ्युपगन्तृत्वात् । ___ उत्कृष्टज्ञानावच्छेदिका च तनुः ईशं = भवानीपतिं न व्याप्नोति । तथा च काकेऽतिव्याप्तिवारणार्थमुत्कृष्टज्ञानाऽवच्छेदकशरीरवत्त्वे सतीति विशेषणदाने ईश्वरेऽव्याप्तिरित्यर्थः ।।२०।।
अन्याऽङ्गरहितत्वं च तस्य काकभवोत्तरम् ।
देहान्तराऽग्रहदशामाश्रित्याऽतिप्रसक्तिमत् ।।२१।। अन्येति । अन्याऽङ्गरहितत्वं च = अपकृष्टज्ञानावच्छेदकशरीरराहित्यं च तस्य = ब्राह्मणभवाऽनन्तरप्राप्तकाकभवस्य काकभवोत्तरं देहान्तराऽग्रहदशां = शरीरान्तराऽनुपादानाऽवस्थां आश्रियं अतिप्रसक्तिमद् = ५अतिव्याप्तं तदानीमपकृष्टज्ञानाऽवच्छेदकशरीरराहित्यात् ।।२१।।
अवच्छेदकदेहानामपकृष्टधियामथ ।।
सम्बन्धविरहो यावान् प्रामाण्योपगमे सति ।।२२।। १. हस्तादर्श 'वेदब्राह्मण्य....' इत्यशुद्धः पाठः । २. हस्तादर्श 'भवनी...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'ग्रहदिशा...' इत्यशुद्धः पाठः । ४. हस्तादर्श ....शरीराहित्यं' इति त्रुटितः पाठः । ५. हस्तादर्श 'अव्याप्तं' इत्यशुद्धः पाठः । ६. हस्तादर्श 'थावन्' इत्यशुद्धः पाठः ।
का
१५/२२॥
॥२६४
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org